सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विग्रहः.]
(१०७)
 


प्रियासु नारीष्वधनेषु बान्धवे -
ष्वतिव्ययो नास्ति नराधिपाष्टसु ॥ १२७॥

यतः-

मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं करोति हि ।
कः सुधीः संत्यजेद्भाण्डं शुल्कस्यैवातिसाध्वसात् १२८

राजाह-'कथमिह समयेऽतिव्ययो युज्यते १

 उक्त च- 'आपदर्थे धनं रक्षेत् ' इति ॥

मन्त्री ब्रूते - 'श्रीमतः कथमापदः १ राजाह - कदाचिच्चलते लक्ष्मीः ।

मंत्री ब्रूते - संचितापि विनश्यति । '

तदेव । कार्पण्य विमुच्य दानमानाभ्या स्वभटा पुरस्क्रियन्ताम् । तथा चोक्तम्-

परस्परं सुसंहृष्टास्त्यक्तुं प्राणान्सुनिश्चिताः ।
कुलीनाः पूजिताः सम्यग्विजयन्ते द्विषद्वलम् ॥ १२९ ॥

अपर च-

सुभटाः शीलसंपन्नाः संहताः कृतनिश्चयाः ।
अपि पञ्चशतं शूरा निघ्नन्ति रिपुवाहिनीम् ॥ १३०॥

किञ्च -

शिष्टैरप्यविशेषज्ञ उग्रश्च कृतनाशकः ।
त्यज्यते किं पुनर्नान्यैर्यश्चाप्यात्मंभरिर्नरः ॥ १३१ ॥

यतः-

सत्यं शौर्य दया त्यागो नृपस्यैते महागुणाः ।
एभिर्मुक्तो महीपालः प्रामोति खलु वाच्यताम् ॥ १३२ ॥

ईदृशि प्रस्तावेऽमात्यास्तावदेव पुरस्कर्तव्या । तथा चोक्तम्-

यो येन प्रतिबद्धः स्यात्सह तेनोदयी व्ययी ।
स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ १३३ ॥

यतः-

धूर्तः स्त्री वा शिशुर्यस्य मन्त्रिणः स्युर्महीपतेः ।
अनीतिपवनक्षिप्तः कार्याब्धौ स निमज्जति ॥ १३४ ॥