सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
विग्रहः.]
(१०५)
 


गृधोऽवदत् ' देव । शृणु-

अविद्वानपि भूपालो विद्यावृद्धोपसेवया ।
परां श्रियमवाप्नोति जलासन्नतरुर्यथा ॥ ११७ ॥

अन्यच्च-

पानं स्त्रीमृगया द्यूतमर्थदूषणमेव च ।
वाग्दण्डयोश्च पारुष्यं व्यसनानि महीभुजाम् ॥ ११८ ॥

कि च-

न साहसैकान्तरसानुवर्तिना
न चाप्युपायोपहतान्तरात्मना ।
विभूतयः शक्यमवाप्तुमूर्जिता
नये च शौर्ये च वसन्ति सम्पदः ॥ ११९ ॥

 त्वया स्वबलोत्साहमवलोक्य साहसैकवासिना मयोपन्यस्तेष्वपि मन्त्रेष्वन- वधान वाक्पारुष्य च कृतम् । अतो दुर्नीते फलमिदमनुभूयते । तथा चोक्तम्-

दुर्मत्रिणं कमुपयान्ति न नीतिदोषाः
सन्तापयन्ति कमपथ्यभुजं न रोगा ।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषयाः परितापयन्ति ॥ १२० ॥

अपर च-

मुदं विषादः शरदं हिमागम-
स्तमो विवस्वान्सुकृतं कृतघ्नता ।
प्रियोपपत्तिः शुचमापदं न्यः
श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ १२१ ॥

 ततो ममाप्यालोचितम् -' प्रज्ञाहीनोऽय राजा । नो चेत्कथ नीतिशास्त्रकथा- कौमुदी वागुकाभिस्तिमिरयति । यत -

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ १२२ ॥