यातु, प्रस्तुतमनुसवीयताम् । मलयाधित्यकाया समासितो वर्तते चित्रवर्णो
राजा तदधुना कि विधेयम् ।' मत्री वदति - ' देव । आगतप्रणिधिमुखान्मया श्रुत
तन्म मन्त्रिणो गृस्योपदेशे यच्चित्रवर्णेनानादर कृत । ततोऽसौ मूढो जेतु
शक्य । तथा चोक्तम्-
|
लुब्धः क्रूरोऽलसोऽसत्यः प्रमादी भीरुरस्थिरः । |
ततोऽसौ यावदस्मद्दुर्गद्वाररोध न करोति तावन्नद्यद्रिवनवर्त्मसु तद्बलानि हन्तु वारसादय सेनापतयो नियुज्यन्ताम् । तथा तोक्तम्-
|
दीर्घवर्त्मपरिश्रान्तं नद्यद्रिवनसंकुलम् | |
अन्यच्च-
|
अवस्कन्दमयाद्राजा प्रजागरकृतश्रमम् । |
अतस्तस्य प्रमादिनो बल गत्वा यथावकाश दिवानिश घ्नन्त्वस्मत्सेनापतय. । तथानुष्ठिते चित्रवर्णस्य सैनिका सेनापतयश्च बहवो निहताः । ततश्चित्रवर्णो 'विषण्ण' स्वमन्त्रिण दूरदर्शिनमाह - ' तात । किमित्यस्मदुपेक्षा क्रियते । कि क्वाप्यविनयो ममास्ति । तथा चोक्तम्-
|
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् । |
अपर च-
|
दक्षः श्रियमधिगच्छति पथ्याशी कल्पतां सुखमरोगी । |