पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । ४३१ वातः पित्तं च श्लेष्मा च चक्षुष्याधीयते यदि । सरपक्षासनमातङ्गो जायते नात्र संशयः ॥ ४१ ॥ पित्तं रुधिरसंमृष्टं चक्षुषी तु ब्रजेद्यदि । काकाक्षस्तेन मातङ्गो जायते नात्र संशयः ॥ ४२ ॥ संश्लिष्टं श्लेष्मणा पित्तं चक्षुषी यदि गच्छति ॥ श्वेताक्षस्तेन मातः कालवारक एव च ॥ ४३ ॥ असृग्गमें शयानस्य यदि चक्षुषि लीयते । पाराषतक्षः स गजो जापते नात्र संशयः ॥ ४४ ॥ रक्तं श्लेष्मा च पित्तं चे यदि चक्षुषि लीपते ॥ मध्वक्षस्तेन मातङ्गो जायते नात्र संशयः ।। ३४५ ॥ विषमाक्षश्च वातेन विरूपाक्षश्च जायते ॥ नानानिमेषो मातङ्गः पित्तश्चेष्मगतिर्हि सैः ॥ ४६ ॥ विषमेष्वतिभारेण हस्तिनी यदि पीडिता ॥ मिथ्याकर्मणि आयासादूष्मा संजायते भृशम् ॥ ४७ ॥ सा चेद्यजूष्मसहिता तोयं समव गाहते ॥ नेत्रे तेनोपहन्येते गर्भस्थस्योष्मणा नृप ॥ ४८ ॥ ऊष्मणा पच्यमानस्य चक्षुर्हन्पेत हस्तिनः । जास्यन्धस्तेन मातङ्गो जायते नात्र संशयः ॥ ४९ ॥ गमें यदा शयानस्य जानुनी प्रतिपद्यते । उभयोर्नेत्रयोरन्तर्मरुतः संचरेबृप ॥ ३५० ॥ निभृज्यते स गात्रेषु विकटस्तेन जायते ॥ वारणः पृथिवीपाल नास्ति तत्र विचारणा ॥ ५१ ॥ = पृथुस्वाचानु नागानां रोमकूपैर्न गच्छति ॥ अस्वेदः पृथिवीपाल शीलसाम्पा खतः स्मृता ।। ५२ ॥ नायुबद्ध छविधैषां गाढरोमा च जायते ॥ अन्तःस्वेदा बलाधिक्यत्तस्माभाग दृपोत्तम ॥ १३ ॥ १ क. च चक्षुषी यदि ली° । २. क . सा । ३ क °यु कीक° । ४ क. गान्नृपो° ।