पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ पालकायद्या [ १ शपथाने जीवोषीवमाश्रिस्य गॐ भवति कालतः । रसेन भीषितो जीवो गर्भस्थः किं न रोदिति ॥ २ ॥ जरायुणा मुखे रुछने कण्ठे च कफवेष्टिते ॥ वायोर्गतिनिरोधाश्च गर्भस्थो न प्ररोदिति ॥ ३ ॥ मलापत्वायोगाच्च वयोः पक्काशयस्य च ॥ वातसूत्रपुरीषाणि गर्भस्थो न करोति हि ॥ ४ ॥ सूक्ष्मत्वाद्विशतत्वाच्च नात्र किटं प्रशस्यते । नाभ्यां प्रतिष्ठिता नाडी अन्तरे हृदयस्य च ।। १०५ ॥ मात्रोपयुक्तान्देहस्थो गमी वहति वे रसान् ॥ चतुर्भागेन चांशेन गर्भ प्रीणाति हस्तिनी ॥ ६ ॥ नाड़ी रसवद्व। नेपा तया गर्भः स जीवति ॥ ततः समानसंज्ञानं व्यक्तं भवति पार्थिव ।। ७ ।। ज्ञानं च रसवीर्याभ्यं संभूयाऽऽयु विवर्धते । बुद्धिः संजायते चास्य सप्तमे मासि पार्थिव ॥ ८ ।। अष्टमे स्थिरसर्वाङ्गः संधिनायुसमन्वितः । त्वगस्थिमांसमेदोभिः संयुक्तः संविवर्धते ॥ ९ ॥ नवमे दशमे चेव भवेदेकादशेऽपि वा ॥ द्वादशे वा गजो राजञ्जायते नात्र संशयः ॥ ११० ॥ वृष या द्वादश माप्ति गर्मिणी न प्रसूयते । इटं तु कारणं तस्या विनेयं नैरसचम ॥ ११ ॥ क्षीणशोणितमांसाया तथ्धकाशनाद्भवेत् ॥ अध्वनो गमनाद्भाराद्धन्धनाञ्च श्रमाद्भयात् ॥ १२ ॥ गर्भ मुञ्चति हस्तिन्या वायुना परिशोषितः । न स्पन्दते न स्फुरते चातुर्यं च न गच्छति ॥ १३ ॥ न गच्छत विनाशं च न च काले प्रसूयते । अल्पप्राण निरुत्साझा गर्भशय्यां न मुञ्चति ॥ १४ सा लीनगर्भा करिणी प्रसूतेऽतिचिरादपि । धेनुर्बन्धकनी चैव तथा नागोलिकाऽपि च ॥ ११५ ॥ t‘अयमर्घलोकः माभ्यां -इत्यर्धतः परं पाठ्यःइति प्रतिभाति ॥ १ क, °भोगो नवांशे° । २ क, °नं सर° । ३ क. °भ्यां स भूयासुर्विवथ् । ४ क. राजसत्तम। ।