पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(= = = ४ वर्षाकान्समीयः] स्वायुर्वेद ४१२ भूतान्येतानि कथ्यन्ते पद्येव खलु देहिनाम् ॥ समवायः पुमस्वेष योग्य कललसंज्ञितः ॥ १९ ॥ कललस्य परीणामाचरत्वमुपजायते ॥ खरीभवति तद्राजन्वदाहेन स्वतेजसा ॥ ९१ ॥ स्वरस्य च परीणामादर्धदं नाम जायते ॥ अङ्दस्य परीणामापेशी स्यादिति निश्चयः ॥ ९२॥ ततोऽस्य शाखा जायन्ते तथा विद्धि मराधिप । गर्भस्येहानुपूर्वेण सर्वभूतेषु पार्थिव ॥ ९३ ॥ यथा मधूच्छिष्टकृतं रूपमन्वेति विग्रहः ॥ त्रीपुंनपुंसकं तद्वज्जीवः समधिगच्छति ॥ १४ ॥

  • पर्वभिस्तु यथा संवैवेंगुरुत्पद्यते नृप ।

संधेरीस्तथा सूक्ष्पैर्जातेर्गभं विवर्धते ॥ ९१॥ शुकं रजो मलश्चैव गर्भस्थस्य न जायते ॥ चतुर्थे मासि जायन्ते नाय्वस्थीनि सिरास्तथा ॥ ९६ ॥ जापते तस्य निर्वेत्तिरङ्गानां तु महीपते ॥ निखैत्तिरनुपूर्वेण पथावच्छोतुमर्हसि ॥ १७ ॥ शिरो ग्रीवा च पृष्ठं च कथं चाऽऽस्यं करस्तथा ॥ गात्रापरमथो बालस्तथा निष्कश एव च ॥ ९८ ॥ उरस्तथाऽऽयामकाण्डमानुपूत्र्यक्षराधिप । छवी च पञ्चमे मासि यथावरमविभज्य च ॥ ९९ ॥ चक्षुः श्रोत्रमथो जिह्वा प्राणोऽपानस्तथैव च । वृष्कौ नखानि रोमाणि यकृ६ श्राणि पुष्फसम् ॥१००॥ व्यज्यते हृदयं चैव षष्ठे मासि नराधिप । संभवन्ति महीपल गर्भस्थस्येह दन्तिनः ॥ १०१ ॥ ने 'गर्भस्य हि संभवतः पूर्वं शिरः संभवतीत्याह शौनकः शिरोमूळचाद्देहेन्द्रि याणाम् । हृदयमिति कृतवीर्यो बुदमेनसश्च स्थानत्वात् । नाभिरिति पाराशर्यःततो हि वर्धते देहो देहिनः। पाणिपादमिति मार्कण्डेयस्तन्मूलत्वाच्चेष्टाया गर्भस्य । मध्यश रीरमिति सुभूतिगौतमस्तनिबन्धनत्वात्सर्वगात्रसंभवस्य । तत्तु न सम्यक् । सर्वाङ्गप्रत्य झानि संभवन्तीत्याह धन्वन्तरिः। गर्भस्य सूक्ष्मत्वान्नोपलभ्यन्ते वंशाङ्करवचूतफलवच । तयथा-चूतफले परिपक्के केशरमांसास्थिमजानः पृथग्दृश्यन्ते । कालप्रकर्षात्तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मत्वात् । तेषां सूक्ष्माणां केशरादीनां कालः प्रब्यक्ततां करोति । एतेनैव वंशारोऽपि व्याख्यातःइति सुश्रुते धन्वन्तरेरप्यत्रैव संवादो दतिः ॥