पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ गर्भसंभवाध्यायः ] इस्त्यायुर्वेदः। ४०६ पीतलीढस्वदितानामभिवोडा समानः । माणापानसमानव्यानानामन्तकालेऽ• भ्युद्धर्ता चौदानः ॥ अथ तेजःस्थानानि-प्रदर्शनं चक्षुब्धया कायाग्निदयं वक्पर्यन्तमिति । तत्र चक्षुर्गतं षाणि यद्भाति । कायाश्रिरामाशयपकाशययोरन्तरस्थो धातूनां चान्तरेषु प्रयोगान्पाचयति । हृदि संश्रणाचक्रधयति । वक्पर्यन्तगतश्चाभ्यङ्ग परिषेकादीन्पाचयति । तत्र श्लेष्मा संधीन्संश्लेषयति, मृदुकरश्च । सप्त चास्य धातवो रसरुधिरमांसमेदोस्थिमज्जाशुक्रमिति ॥ दश चास्य प्राणायतनानि भवन्ति शिरोदयनाभिगुदवस्तिवातपित्तश्लेष्म सूत्रपुरीषाणीति ॥ प्राणयात्रार्थं चास्य षड्रसाश्च मधुराम्ललवणकटुतिक्तकषायाः । तैरुपपन्न । गर्भस्तिष्ठति । तत्र त्रयाणां समवायाद्भर्भाधानं भवति मातुः पितुःजीवस्य चेति । मैथुनसंयोगापतिं यदाऽभिकाङ्क्षति धेनुका, तां समुत्पनतृकां (*तेस्माह तुस्नातां ) इस्तिनीं विद्यात् । आर्तवस्य द्वादशरात्रं भवति । तस्माद्दिवा रात्रौ वा हस्तिनो हस्तिन्याश्वसंयोगे प्रादुर्भावो भवति । यदा हस्तिन्यामृतुमस्यां मत ङ्गजः संयोगेषु शुक्रमुरस्रजति तद्युः कोष्ठे मविभजते । मातुराहांगसंवर्धते । तस्मात्कवलरसपछवाहारासविना(?)क्षोभयायामतीक्ष्णोष्णाहाराविवर्जनारस्या करेणैः । तत्र बहुश्रुते पुमान्संभवति, श्री शोणितबाहुल्यान, समे नपुंसकम्, शुक्रे तु वायुना द्विधाकृते यमलावुत्पद्येते । यदूष(इ)गर्भ विभर्ति धेनुका तदाकारं भवति । तत्र ग्राम्यधर्मे निवृत्ते यदा योनिमुखगतं श्रुतं भवति । तेश्च रुधिरसंसर्गात्कललं भवति । ततो जीवः संक्रामति गर्भम् । पृथिव्यापस्तेजो वायुराकाशं ज्ञानमिति षट्शरीरकारणानि भवन्ति । तत्समवायात्ततो योग्य कललसंज्ञो भवति परिणामारकललः खरत्वं भवति । स्वतेजस विदाहे तखरी भवति परिणामत् । खरस्याङ्दस्प पेशी भवति । तत्र मज्जा च धुकं च नागानां गर्भस्थानां भवति । नाय्वस्थीनि *पितृ

  • 'केशश्मश्रुलेमास्थिनखदन्तसिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि,

मांसशोणितमेदोमज्जावृन्नाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि’ इति सुश्रुतात् ‘दृढानि पितृजानि, मृदूनि मातृजानि’ इति पर्यवसितम् ॥ १ क. तेजसः स्था° । २ क. तस्मादनुस्थानां । ३ क. °हारः संव° । १ ख. °ः। ततश्च करेणुस्तत्र । ५ क. यच्च । ५