पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ गर्भसंभध्यारैः ] हस्त्यायुर्वेदः । ४०१ बसानचतुष्कं वै सोऽधिकस्तु चिकित्सकः । आपूढः सर्वरोगेषु योजयेद्यो भिषक्क्रियाम् । प्रजासु च सदा मानं महत्त्वं च नियच्छति । पश्च सप्त तथा श्रीश्च द्वावेव चतुरस्तथा । नव चतुर्दश द्वौ च द्विकौ वा भवद्विप, इति ॥ इति श्रीपालकाप्ये हस्पायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने द्वादशपक्रमो नाम षष्ठोऽध्यायः ॥ ६ ॥ अथ सप्तमोऽध्यायः । अथाङ्गराजोऽभिवाद्य पप्रच्छ पालकाप्यम्--'भगवन्कथमुपनानि पृथि व्यादीनि, के चैषां गुणाश्चोपगुणाश्च । किं च शरीरम् । कंधाङ्गमभिवर्तते । कश्च गर्भः । कथं चाभिवर्धते । कथं च त्रिविधा शरीराकृतिः समा विषम समं विषमं चाभिनिवर्तते, भद्रमन्द मृगसंकीर्णाश्च कथं निवर्तन्ते । कथं च कुब्जवामनहीनाधिकविक्रताद्यन्यन्यानि च निवर्तन्ते, कथं वा कृष्णश्वेतरक्त रूक्षा निष्पद्यन्ते, मिश्रवर्णा वा हस्तिनः । कथं वा विषमविषाणा मोठादयः समु पद्यन्ते, नयनघ्राणवक्श्रोत्रजिद्वेन्द्रियाणां किमध्यामम्, किमधिदै वि(घ)कम्, किमधिभूतम् । स्त्रीपुंनपुंसकविशेषाश्च केन जीवविशेषेणोत्पद्यन्ते । कथं च गर्भस्थो नोत्सृजति मूत्रपुरीषम्, न चापि बृहति । कं मातृजम्, पितृजम्, आत्मजम् । रजस्तमःसत्त्वजानि कानि । गर्भस्य वाङ्मनोबुद्धिरहंकारः सन्त रजस्तमसमारमा कथमुत्पद्यते, तन्मयानि शब्दस्पर्शरस ऊपगन्धाश्चेति । गर्भस्य किं वा पूर्व संभवति । करचरणनयनमुखशिरोग्रीवागात्रापर संधिवङ्क्षणनाभिदे शगुदमेण्ट्राणि कथं विभज्यन्ते’ इति ॥ ततः प्रोवाच भगवान्पालकाप्यः—‘इह खलु भोः परं सूक्ष्मभावार्थमप्यत्र्यः क्तमोष्ठस्पन्दनमा त्रुटिः । सर्षपमात्रे मोठभेदो लवः । द्वे खुटी लघ्वक्षरः । त्रे लघ्वक्षरे अक्षिनिपातसंनिभं निमेषः। निमेषास्तु दश पञ्च च काष्ठा । ता दश विंशतिः(च) कला । त्रिंशत्कलो मुहूर्तः। ते त्रिंशदहःक्षये लोके सूर्यं विभजते । तत्र कर्मणां चेष्टयं दिवसःशर्वरी स्वपायें । त्रिंशदहोरात्राणि मासः । द्वाद १ क. द्विकोशौ। २ क. °शोऽध्या°। ३ क. कथं वाऽङ्गमभिनिव° । ४ क. भं च नि° । १ क. 'नि चाङ्गक° । ६ क. संमितं नि° । ७ क. विंशतिकलो । ८ क. °य। यत्तु त्रिं । ५१