पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ द्वादशोपक्रमाध्यायः ] _ हस्त्यायुर्वेदः । ३८७ वारणानां यथाशास्त्रं क्रियां कुर्वादतन्द्रितः । विज्ञाय तु यथावत्तां यथाकालं प्रयोजयेत् ॥ प्रयोगकुशलो पस्मादसंमूढो जितेन्द्रियः । स कर्मसु परां सिद्धिं प्राप्नोति भिषगुत्तमः ।। इति श्रीपालकाप्ये इस्पायुर्वेदे अदमवचने तृतीये शल्पस्थाने व्रणोपक्रमलक्षणोपक्रमो नाम पञ्चमोऽधपापः ॥५॥ अथ षष्ठोऽध्यायः । अथ खलु रोमपादोऽङ्कपतिरपृच्छद्भगवन्तं पालकाप्यम्--'भगवन्, किं ज्ञात्वा वैद्यो भवति । एतन्मे व्याख्यातुमर्हसि ॥ ततः प्रोवाच भगवान्पालकाप्पः-‘इह खलु भोः पञ्च, सप्त, न्, द्वौ, चतुरो, नव, चतुर्दश, चतुरश्च आस्वा भवेद्विषक् ’ इति । । तत्र पञ्च' इति पदवोचत्, तदनुव्याख्यास्यामः । तत्र ‘पृथिव्यापस्तेजो वायुराकाशम्’ इति ॥ तत्र पञ्चगुणा पृथिवी । चतुर्गुणा आपः । त्रिगुणं तेजः । द्विगुणो वायुः । एकगुणमाकाशम् । शब्दस्पर्शरस रूपगन्धवती पृथिवी । शब्दस्पर्शरस रूपवस्य आपः । शब्दस्प शंखपवत्तेजः । शब्दस्पर्शवान्वायुः । शब्दवदाकाशम् ॥ तत्र पृथिवी धारणे । आपः छेदने । तेजः पाचने । वायुतऍझने । आका शमवकाशदाने । तस्मान्पञ्चवर्गोऽयं प्रधानःततोऽभिप्रणीतं सर्वं दन्तिनाम् ॥ तत्र खमिस्याकाशः । आकाशाच्छब्दः शौषिये च । अनिलारस्पर्शः प्राणा दयश्च । दृष्टिः पाकः प्रकाश ऊष्मा पित्तं च तेजसः । नेद: छेदः शैत्यं रस रसनं चोदकात् । प्राणवान्गन्धः संघातश्च भूमेरिति ॥ --:-:-- सप्तैते शरीरे धातवः--रसो रुधिरं मांसं मेदोऽस्थि मज्जा शुक्रम् । इति । त्रीनिति वातपित्तश्लेष्माणः । तेहिं शरीरं धार्यते । समैः सम्यम्, वैषम्यं है - १ ख. ‘थिव्यप्तेन । २ स. ९विद्वायुः । ३ क.°भिप्राणान्तं स° । ४ क. साम्यम् ।