पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ पालकाप्यमुनिविरचितो- [३शल्यस्थाने स्नेहपानं च सेकं च सर्पिः निग्धं च भोजनम् ॥ नियमेव हितं तस्य कारपेस सुखी भवेत् ॥ ३५ ॥ इति श्रीपालकाप्ये इस्पायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने षड स्पषोपचारो नाम चतुर्थोऽध्यायः ॥ ४ ॥ अथ पञ्चमोऽध्यायः। अध भगवन्तं पालकाप्यं रोमपादः पुनरेवापृच्छत् - भगवभिरवशेषा: णामामन्तुकानां लक्षणमभिहितम्, ये त्विमे बाणा आसनप्रत्ययाः, तेषां प्रयोग- सामथ्र्प योनिदोषं पृथक्वेनाऽऽकृतिविशेषानुपक्रमविशेषश्च () कति च ब्रणो पक्रमाः,किं साध्यासाध्यलक्षणम्, अन्वयप्रकृतिसाम्यम्, ईस्पेत चथोपदिश्यमा नमिच्छामि वेदितुम् ’ इति । एवं महर्षिभिरभिहितः, शुश्रूषा च (?) रोमपादाय संस्कृतपदविचित्रं हेतूप नयननिगमयुक्तमुवाच वाक्यम्-वस, एतेषु चतुर्षी कर्मस्कन्धेषु द्विरदपतयो व्याख्यातः । तेषां यथास्थानोपगतानां व्रणानां लक्षणविशेषमनुष्पाढ्या स्पामः। तद्यथा-अल्पवयसः कवलकुवलभोजना महान्तमध्वानं च यदा वाद्यन्ते (*दिवसकरकराभिसंतप्तशरीरा बहुपगूढेरिव च पवनबलप्रवेगैरभिह न्पमानः क्षितितलमभिपतन्ति पञ्चप्रमाथीनिषेवमाणाश्च न सलिलमवगा ३न्ते ।) शुष्कौष्ठकण्ठवदनाः केचित्, केचिदुदूराध्वानमुपगताः पञ्चकर्द मशेवालपर्णहृमंजुष्टं सलिलमुपसेवन्ते । तेषां वायुरतिबलः खरपरुषः शीतो ध्यानात्मकः संघातवियोगकारी प्रकोपमुपगच्छत द्विरदपतीनां देहेषु । तेषां त्वक्चरणहस्तकुक्षिवदननखकर्णेष्वेवमादिषु चाङ्गप्रदेशेषु व्रणाः संभवन्ति खराः स्फोटवन्तः पुरुषाः फेनानुविद्धः पिच्छिलाः स्राविणः प्रायशश्च गम्भीरा नुगतभावा भवन्ति, अस्थिविवरभागाश्रयाश्च मांसमभि विगानन्ते, तद्वातवण लक्षणं भवति । अथ सलिलधरविसर्गकाले वीर्द्वनस्पतियानस्पस्थानामौषधीनामुपर्योग तवीर्यवाद म्लरसभूयिष्ठउँम(मुपगतानां सेवनातिपत्तसंजननं भवति । भूयश्च शरदि दिवसकरकराभिहतदेहानां सुजातैपवसकवलकुवलानां वीर्यं

  • धनुश्चिह्नान्तरगतो नास्ति पाठः खपुस्तके ।

१ ख. रोमपादीयं ।२ क. मिदुष्टं । ३ ख. °नामप°। क, °त्वमग°। ४ ५ क. तनयसः क°।