पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ मदावस्थाध्यायः ] इस्त्यायुर्वेदः । गजानां नृपमध्ये च तथा वाजिसमाजिषु || विवादेष्वपि नागानां नान्डोमे ॥ १४ ॥ अन्तरापणभूम्यां च बालक्रीडाविहारयोः ॥ उद्वहेद्राजमात्रांश्च मदे मेदोद्भवे गजः ॥ १५ ॥ सवश्याङ्गत्वचापिण्यां(?) चतुर्थ्यां. नियतं गजः || यदा त्वस्थीनि संप्राप्तो मदो भवति दन्तिनः ॥ १६ ॥ तदा भवेत्क्रोधपरः सर्वेषामेव भूमिप ॥ रथमश्वं नरं वाऽपि हस्तिनं वा विशेषतः ॥ १७ ॥ अन्यं वा किंचिदासाद्य सर्व प्राणैर्वियोजयेत् || अतिक्रामति मर्यादां वार्यमाणः प्रयत्नतः ॥ १८ ॥ किंचित्ससंज्ञो भवति निःसंज्ञश्च पुनर्द्विपः || तां क्रोधनों मदावस्थां जानीयात्तस्य दन्तिनः ॥ १९ ॥ अथ प्राप्ते तु मज्जानं तस्या वक्ष्यामि लक्षणम् ॥ स्थानस्थो योऽपि गच्छन्वा जले मध्ये स्थितोऽपि वा ॥ २० ॥ सच नोत्सहते गन्तुं क्रोधेन कलुषीकृतः || . स्थानानि हस्तिनां याति बद्धानां क्रोधमूर्च्छितः ॥ २१ ॥ मदादीनवसंधाय श्रुत्वा घण्टास्वनं तथा ॥ अटित्वा सुप्रदेशान्वै स्थानमेवोपतिष्ठति ॥ २२ ॥ एतां षष्ठी मदावस्थां जानीयादतिवाहिनीम् || अथ शुक्रमनुप्राप्ते मदे रूपं निबोध मे ॥ २३ ॥ अन्धो न पश्यत्यपि च न शृणोति न बुध्यते ॥ रात्रौ दिवा च स्त्रवति रोषश्चापि प्रजायते ॥ २४ ॥ गन्धमस्या न तिष्ठति न चात्र प्रतिहस्तिनः ॥ निराहारस्य वाप्यस्य न भवेत्प्राणतः क्षयः ॥ २५ ॥ मन्यन्ते केचिदाचार्या . रिष्टमेवेति हस्तिनाम् || अवस्थां सप्तमीं प्राप्य नैव जीवति वारणः ॥ २६ ॥ संभिन्ना मदमर्यादा मदकाश परा नृप । स कृत्वा सुचिरं नागो मदविच्छर्दिमुत्तमाम् ॥ २७ ॥ क्षीणतोये यथा मेघो बिच्छापाति (?) नृपोत्तम || तथा क्षीणमदो नागः प्रशान्तिमुपगच्छति ॥ २८ ॥ १ क. अधो न यत्प° । २ क निरुहारस्य | ३ क. निर्गच्छति ।