पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ लशुभकल्पाध्यायः ] इस्त्यायुर्वेदः । अथ गजमूत्रं तिक्तमुष्णवीर्यं गृहोषाय दद्यात् । गार्दभमुष्णवीर्यं वातश्लेष्महरं मृत्तिकाभिलाषिणेदद्यात् । औष्ट्रमतितीक्ष्णं कृमिकोष्ठविशोधनार्थं दद्यात् । तत्र लोकः- स्निग्धानां वारणानां व दातव्यमिति निश्चयः । सर्वदा प्रतिपानार्थं रूक्षाणां न प्रशस्यते || ज्ञात श्रीपालकाप्ये हस्त्यायुर्वेद उत्तराभिधाने परिचारच तुर्थस्थाने करीषमूत्राध्यायः सप्तविंशः ॥ २७ ॥ अथाष्टाविंशोऽध्यायः । अथ हुतामिहोत्रं पालकाप्पं रोमपादो विनयात्पप्रच्छ 'भगवन्यदेतद्रव्यं रसोननामामृतमहोपदिष्टं तस्योत्पत्तिनिरुक्तानिष्टगन्धतां रसवीर्य विपाक उप- युक्तं यथानन्यान्याने व्याधीनिहन्ति, अशेषेण तन्मे व्याख्यातुमर्हसि ' || तत्र प्रोवाच भगवान् श्रीपालकाप्यः -- इह खलु भोः सुपर्ण: पुरा जननी- हे तोराहरदमृतं विहायस्यतिवेगेन मलीनस्तस्यामृतभाजनारसंक्षोभात्ततो बिन्दु- निष्पातार्दानष्टभूमावनिष्टगन्धमम्लर सोनमूलं लघुशीघ्र विपाकि तीक्ष्णरसमिति तस्माद्रसोनं रसोत्तमममृतसंभवं ब्रुवन्त्याचार्याः | तद्रसोनं मूले कषायरसं, बीजे मधुररसं, पत्रे तितरसं, पत्राग्रे कटुरसं, ●नाले लवणरसं, संधानजननं मलविशोधनमसृक्प्रसादनमग्निदीपनं तीक्ष्णो- ष्ण कटुकषायत्वाच्छ्रलेष्म निबर्हणम्। स्त्रिग्घोष्णत्वादनिलापहं माधुर्याद्रक्तपित्त- प्रशमनम् | गुरुत्वाद्धलमुपकुरुते । पैहिल्यात् (?) स्नेहमाधुर्यगुरुत्वादिभिर्गुणैः संनिपातमवकर्षति । विचित्ररसवीर्यगुणविपाकतो रसाद्वनम् (?) | तस्मा- गुरुगमन विहतममास्थिमपि (थि) तविच्युत मोटित जर्जरी कृतानामकामाशनपान- निश्चितानां च घृतयुकं रसोनं देयम् | अन्नपानक्षीरफाणित संयुक्तं दद्यात् । तथा रसरुधिर मांस मेदोस्थिमज्जाशुक्रक्षफिम्पोऽन्ये प्रमदक्षीणानामन्येषु च सर्वरोगेष्वरोगाणां बलमांसविवृद्धयर्थं रसोनं दद्यात् । मृगमहिषवराह रोहितम- त्स्यानां तत्रचूडबर्हिणलावृतित्तिराणां च सूपशोषितेन रसोनं दद्यात् । वेसवा- रेण सर्तेन शाल्पोदनं च भोजयित्वा रसायसोनं देयम् । तेनास्य बृंहित- शरीरस्य रसरुविरमांसमैदोस्थिमज्जाश्शुक्राण्युत्साह चलवृद्धिर्भवति । क्षीरघृत- संयुक्तं वि'पोतेभ्यो बलमांसविवृद्धयर्थं दद्यात् । यदा तु वर्षासु वातभूयिष्ठा