पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-५ सर्वक्षताध्ययः ] स्याचुर्वेद ३७१ संयुक्तेन पूरयेत् । उपचरति मासार्धवया() पेष्वपि पूरणं दद्यात् । तृतीये चाहनि यथोक्तेन प्रक्षाछनेन प्रक्षाल्य व्रणं घृतेन परिषेचयेत् । अनेनैव विधिना व्रणमुपाचरेदाछेदात् । ततः शोधनादिकरकैरुपक्रमेत्, घृतपानं च दद्यात् । घृतसंयुक्तं शापोदनं मुद्यूषेण संसृष्टं दद्यात् ॥ अथ सिंहव्याघ्रनखदंष्ट्रावलुप्तमभिविज्ञाय शतधौतेन घृतेनाभ्यज्य पञ्चकषा येण विमलशिशिरसलिलेन परिषेचयेत् । शीतैस्तु पदेहे घृतसंयुक्तैश्च प्रदेहयेत् । व्रणांश्व व्रणोपक्रमैरुपक्रमेत् ॥ अग्निदग्धं तु शतधौतेन घृतेनाभ्यज्य निर्वापयेत्पयःसुराभ्योऽन्यतरेण वा शीतैश्च प्रदेहैः, मञ्जिष्ठायटीमधुकचन्दनोशीरपत्रकनलवनुलशालिमूल सारिवा र्जुनोदुम्बरप्रकैःवटमालिकाजलजबिशमृणालोपलपझिनीकर्दमभद्रमुस्ताऋण शूल्यैश्च सुरादधिघृतयुक्तैः प्रदेहं कुर्यात् । कषायोदकपिटैः परिषेकांश्च कुर्यात् । ठ्यपगताभिमभिज्ञाय विमलशिशिरसलिलेऽवगाहयेत् । निवृत्तमवगौहाद्युतेन परिषेचयेत् । व्रणं च पूर्वोक्तैरुपक्रमैरुपक्रमेत् । गुढजतुमधूच्छिष्टमेध्यदंग्ध ( नलदग्धसमानक्रियं तस्योपक्रमं कुर्यात् ।) घृतेनाभ्यज्य शीतैः प्रदेहै रुष क्रमेत् ॥ अजैविधुसंतापदग्धस्य 'समानमुपक्रमं कुर्यात् । संतापदग्धं तु विशेषेणाऽऽहारैः घृतयुक्तं च सारम्यकालाविरुदैरुपाचरेत् शालीनामोदनं । । मुद्यूषरसयुक्तं दद्यात् । क्षारदग्धं च द्वित्र्णीयेन क्षारकर्मण्युपदिष्टनोपक्रमेत । घृष्टमधुघृतेनाभ्यज्य शीतैः प्रदेहैरुपक्रमेत । विषदग्धं च शश्वकर्मादिभिरुपक्रमेत् । दग्धं चाऽऽशीविषनिःश्वासैः शत धौतेन घृतेनाभ्यज्य विषजग्धोद्दिष्टैः प्रदेहैरुपक्रमेत् । घृतपानं च दद्यात्, शीत- परिषेकं च कुर्यात् । भोजनं विषजग्धोद्दिष्टं दद्यात् ॥ तत्र श्लोकः क्षतं दग्धं च यो नगे() विधिना समुपाचरेत् । पूज्यः स नियतं राज्ञा दानमानपरिग्रहैः ॥ इति श्रीपालकट्ये हयायुर्वेदमहाप्रवचने तृतीये शल्यरोगस्थाने सद्यःक्षतलव(क्ष)णं नाम द्वितीयोऽध्यायः ॥ २॥

  • खपुस्तके त्रुटितः ।

१ क. ‘दिभिः क° । २ क. गाहये°। ३ क. दग्धं ।