पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- अतोऽन्यथा प्रकुर्बाणाः सराष्ट्रबलवाहनाः ॥ राजानोऽपि विनश्यति देवतातिक्रमेण वै ॥ ३७ ॥ · प्रयुञ्जते चं ये तस्मै सम्पक्पूर्जा नराधिप । सपुत्रदारा वर्धन्ते राष्ट्रबलवाहनाः ॥ ३८ ॥ आज्ञां महेश्वरस्येमां प्रतिगृह्णन्ति पे नृपाः ॥ संग्रामे सममप्यन्ते ते भवन्ति विदारणाः ॥ ३९ ॥ काले बीजानि रोहन्ति सम्पम्वर्षति वासवः || न भक्त्पत्र मरको व्याधिहानिस्तथैव च ॥ ४० ॥ निरामपं च भुञ्जीत राज्ञा कृत्स्ना वसुंधरा || रत्नाकरर्वती देवी सरौलवनकानना || ४९ ॥ अरोगा बलवन्तश्च जयन्त्येते मतङ्गजाः ॥ गजोपजीविनः सर्वे कामभोगे: समन्विताः ॥ ४२ ॥ पुत्रैश्च पश्चभिश्चैव जीवन्ति च शतं समाः ।। अरोगा बलवन्तश्च जायन्ते वै मजा भृशम् ॥ ४३ ॥ पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् || पांच प्रार्थयते कामान्सवस्तान्मामुयानरः ॥ ४४ ॥ एवं वृत्तं मझराज शंभो तपाऽन्वितं विभो । श्रीगजस्य प्रतिकृतं त्रिषु लोकेषु पूजितम् ॥ ४५ ॥ मयाऽऽरूपाता महाबाहो विस्तरेण यथाक्रमम् ॥ इति श्रीपालकाप्पे हस्त्यायुर्वेद उत्तराभिधाने परिवारचतुर्थस्थाने द्वाविंशः श्रीगजसंभवाध्यायः ॥ २२ ॥ अथ त्रयोविंशोऽध्यायः । [ ४ उत्तरस्था अहि राजा चम्पायां पालकाप्पं स्मं पृच्छति ॥ सर्व द्रव्यगतं मनं क्रमेण मुनिसत्तमः (म्) ॥ १ ॥ सर्पिस्तैलं वसा मज्जा क्षीरं मूत्रं तथा दधि || किमर्थं दीयते विम क्षौद्रं किमिति दीयते ॥ २ ॥ लवणोदकतैलं वा मेदकं वा सुसंस्कृतम् || किमर्थं भोजनं वाऽपि किमर्थं वाऽनुवास्यते ॥ ३ ॥