पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ किमर्थक्यध्यायः ] इस्त्यायुर्वेदः । किमर्थं सर्वसेकश्च शिरोभ्यङ्गस्तथैव च ॥ गैरिकेण समायुक्तः ससेकश्चापि कं पुनः ॥ ४ ॥ गात्रसेकः किमर्थं च किमर्थं तैलशोधनम् || तथा तैलकषांये वा किमर्थं दीगते पुनः ॥ ५ ॥ दीपतैलं किमर्थं वा किमर्थं रसभोजनम् || एतन्मे सर्वमाचक्ष्व यथावदनुपूर्वशः ॥ ६ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्पस्ततोऽब्रवीत् || शृणु सर्व महाराज पदर्थं दीयते घृतम् ॥ ७ ॥ स्य (?) गात्रपरी पे च (येच पर्यश्रुलोचनाः || क्षीणशोणितमांसाश्च स्तब्धाङ्गाश्चापि ये गजाः ॥ ८ ॥ कर्मभिर्विहता ये च ) भारैर्गुरुभिरदिताः ।। मदक्षीणाश्च ये नागा वृद्धा रूक्षास्तथैव च ॥ ९ ॥ ये कुशाश्चाव सभाञ्च लुप्ताङ्गाश्च विशेषतः ॥ युद्धाध्वगमने किष्टा ये च नागा महीपते ॥ १० ॥ व्याधिभिः प्रतिपत्राश्च नागा ये चापि दुर्बलाः || घृतं तेभ्यः प्रदातव्यं व्याधिता ये च पित्तलाः ॥ ११ ॥ घृतं हि मधुरं शीतं मेदः श्लेष्म विवर्धनम् ॥ सृष्टमूत्रपुरीषं च बृंहणं बलवर्धनम् ॥ १२ ॥ ये च वातप्रकोपेन (ण) श्लेष्मणा च मतङ्गजाः || उपसृष्टा महाराज तेभ्यस्तैलं प्रदापयेत् || १३ || उष्णाभितापि कटुकं त्वच्यं बलविवर्धनम् || " पित्तलं च तथा तैलं कफानिलनिबर्हणम् ॥ १४ ॥ यस्तु कर्माभिनीतस्य धेनुकासु च निःस्रुतः || मदक्षीणस्तथा स्रद्यो(?) वयसा चापि विच्युतः ॥ १५ ॥ तस्मै मज्जा प्रदातव्या महाराज वसाऽपि च ॥ पृषकमाह स योगैश्च ततः संपद्यते सुखम् || १६ || मधुरथोष्णवीर्यश्च विपाके कटुकः स्मृतः ॥ सर्वरेतैर्गुणैर्युक्तो ज्ञेयो मज्जा वसाऽपि च ॥ १७ ॥

  • 'स्तब्धः' इति भवेत् । + धनुश्विद्वान्तरगतः पाठो नास्ति कपुस्तके |

१ क. राज्यरात्र° | २ क. ० राप्रे च । ८५० 1 ६७३