पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [ # उत्तरस्थाने अथैकविंशोऽध्यायः । अङ्गो हिं राजा चम्पायां पालकाप्यं स्म पृष्ठति ॥ के गुणाः क्षीरदानस्य वारणानां विशेषतः ॥ १ ॥ केम्पो देपसदेपं वा पयः कतिविधं भवेत् || एवमुक्तोऽङ्गराजेन पालकाप्प स्वतोऽब्रवीत् ॥ २ ॥ मधुरं शीतवीर्य च विपाके मधुरं पयः ॥ स्निग्धमत्यर्थवृष्यं च तेजोबलविवर्धनम् ॥ ३ ॥ चक्षुष्यं बृंहणीयं च जीवनीयं रसायनम् || कफाभिवर्धन चैव प्राणाहलादरुचिप्रदम् ।। ४ ।। जरायुजानां सन्वानां जन्ममभृति पार्थिव || सात्मीभूतं पयस्तस्मात्पपस्तु श्रेष्ठमुच्यते ॥ ५ ॥ तस्पाष्टौ योनयः प्रोक्ताः गौः करेणुईया खरी ॥ महिषी करभी चैव च्छगला चाविकेति च ॥ ६ ॥ तत्र गव्यं पयः श्रेष्ठं दन्तिनां नपकोविद || सृष्टमूत्र पूरीषस्वात्मष्ठयोनितयाऽपि च ॥ ७ ॥ कारेणवं पयः शीतमत्यर्थं गौरवान्वितम् || कषापानुरसं पथ्यं कलमानां व्यवापि च ॥ ८ !! श्लेष्मलं वाडवं वस्पं नातिपित्तहरं स्मृतम् || भाभं तु पयोगिक्तं कफघं वातकोपनम् ॥ ९ ॥ बहुमूत्रपुरीपं स्यात्पयोऽमिष्यन्दि माहिषम् || कारभं लवर्ण सोष्णं दीपनं लघु कसकम् ॥ १०॥ तत्रापि च गुणश्रेष्ठं माहुश्छागं पयो बुधाः ॥ भजानामरुपकायत्वात्कदुतिकनिषेवणात् ॥ ११ ॥ नात्यम्बुपानाद्व्यायामात्सर्वव्याधिहरं पयः || व्यवस्नेहं तु विज्ञेयं वासभं शाविकं पूयः ॥ १२ ॥ वृद्धा बालास्तपा मताः श्रान्ता ये चापि दुर्बलाः ॥ विहिवाहरणीयैश्च संनिपातेन चापि ये ॥ १३ ॥ रकपित्त मात्क्षीणा क्षीणा ये अपि वारणाः ॥ केवलं घृतयुक्तं वा क्षीरं तभ्यः मदापयेत् ॥ १४॥ ( १ ख. प. योगुणाः ॥ अ° ।