पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रस्त्यायुर्वेदः एवमेकविधः कालो द्विविधोऽयनभेदतः ॥ अपने द्वे समारूपाते दक्षिणोत्तरसंस्थिते ॥ ३ ॥ आदानं व विसर्गध संज्ञे द्वे कीर्तिते मया || उत्तरायणमादानं विसर्गो दक्षिणायनम् ॥ ४ ॥ तत्र त्वादानमाज्ञेयं विसर्ग सौम्य उच्यते || शिशिरश्च वसन्तश्च ग्रीष्मश्चाऽऽदानमुच्यते ॥ ५ ॥ विसर्गे वर्ष (?) विज्ञेयः शरद्धेमन्त एव च । विसर्गे वायवो या (वा)न्ति नात्यर्थं रूक्षदारुणःरणाः) ॥ ६ ॥ गुणैराध्यापते सोमश्वांशुभिः पूरयञ्जगत् || शवदाप्याययत्येवं यद्धलं विसृजत्यलम् ॥ ७ ॥ प्रवृत्तौ च निवृत्तौ च ज्ञेयं पर्याययोगतः || रसौ तत्राम्ललवणौ मधुरश्चापि इष्यते || ८ || स्निग्धत्वाचापि कालस्य सौम्यत्वाच्च निसर्गतः ।। यथाक्रमं बलं तेजो जायते तत्र हस्तिनः ॥ ९ ॥ आदाने रूक्षपरुषा दारुणा वान्ति वायवः ।। उत्तराभिमुखे सूर्ये चन्द्रसैन्यं विहन्यते ।। १० ।। विवस्वानंशुभिस्तीक्ष्णैर्जगत्स्नेहं प्रकर्षति || तस्मादादानमानेयमृषयः परिचक्षते ॥ ११ ॥ कालस्वभावमार्गस्य तथेश्वरपरिग्रहात् || वाय्वर्कसोमा जगतो हेतुभूता न संशयः ॥ १२ ॥ कालं तु रसदोषाणां तथा देहबलस्य च ॥ प्रवृत्तौ च निवृत्तौ च ज्ञेयाः (?) पर्याययोगतः ।। १३ ।। यथाक्रमं रौक्ष्यवृत्तिरादानस्योपदिश्यते || तस्माक्षा रसास्तत्र विवर्धन्ते ऋमात्रयः || १४ || तिक्तः कषायः कटुकश्चतुर्थी नास्ति कश्चन || क्रमाद्दौर्बल्पमिच्छन्ति माणिनां रुससेवनात् ॥ १५ ॥ रसचाम्लोऽथ लवणो मधुरश्च विवर्धते || स्निग्धत्वाञ्चापि कालस्य सौम्यत्वाच निसर्गतः ॥ १६ ॥ • १ क. 'दूसर । ११ अपामगुणाध्यायः ]