पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ay १४ नम्राध्यायः ] त्रिफला सर्वरोगेषु आचार्यैरमिपूजिता ॥. मधुमा सह युक्ता व शीतला परिषेचने ॥ ३१ ॥ त्रिफलापाचयो भागालपस्त्रिकटुकस्प च || सैन्धवाञ्ञ्जनलोहाना मेकैको भाग इष्यते ॥ ३२ ॥ अजाक्षीरेण संपिष्टवा कण्डूतिमिरनाशिनी ॥ त्रिफला च समैर्भाग: सैन्धवं च स भवेत् ॥ ३३ ॥ मधुना च समायुक्तं कण्ड्रनाशनमञ्जनम् || आटरुषकपत्राणि तथा मरुबकस्य च ॥ ३४ ॥ उलूखले क्षोदयित्वा निस्राव्य स्वरसं ततः || तेन शीतकषापेण परिषेकोऽक्षिरोगिणाम् ॥ ३५ ॥ कर्तव्यः सिद्धिकामेन वारणानां वखावहः || निस्तुषामाविकलकं गोमूत्रे परिषेचयेत् ॥ ३६ || अर्धमासस्थितां शुष्कां श्लक्ष्णां दृषदि पेषपेत् || उदुम्बरसमुद्रे तु संसृजेन्मधुसर्पिषः ॥ ३७ ॥ एतदञ्जन मिच्छन्ति दन्तिनां शुक्रनाशनम् || चतुणां क्षीरवृक्षाणां त्वचस्तु समभागिकाः ॥ ३८ ॥ नवे कुम्भे सुविहिता त्रिरात्रमधिवासयेत् ॥ तत्परिश्रा (सा) त्र्य वज्रेण परिषेको विधीयते ॥ ३९ ॥ शिरोलेपञ्च कर्तव्यो नेत्रपाकविनाशनः || क्षीरवृक्षप्रवालांश्च निचुलं रोघ्रमेव च ॥ ४० ॥ मांसी व समभागा तुं क्षोदपित्वा विचक्षणः || जलक्षीरसमायुक्तः परिषेको विधीयते ॥ ४१ ॥ नेत्ररोगहरी राजन्दन्तिनामिह पूजितः || मृगवफलस्थापि कोशं कृत्वा विचक्षणः ॥ ४२ ॥ पूरयेअवनीतेन सुसुदन्धन संपुटम् || तत्र भौर्जपुटं दत्त्वा राजंस्तत्र समावृतः ॥ ४३ ॥ तोषपूर्णेन कुम्भेन स्थापयेतु विचक्षणः || त्रिरात्रमुखि (षि) तं तस्मात्राभ्यङ्गो विधीयते ॥ ४४ ॥ प्रवालकी सपटलां नाली तु विनिहन्ति तु || पिप्पल्यो मरिचं चैव सैन्धवं समनःशिला (ल)म् || ४५ || १ क. स्यात् । २ ख. घ. ससुबन्धेन ।