पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ अस्यदान विध्यध्यायः ] ईस्वायुर्वेदः ।. इति श्रीपालकाप्पे हस्त्यायुर्वेदे महाप्रवचन उत्तरस्थान इक्षुदानविधि- कथनं नाम द्वादशोऽध्यायः ॥ १२ ॥ अथ त्रयोदशोऽध्यायः । .. अत उर्ध्वं नस्यकर्मविधि व्याख्यास्यामः । अथ खलु प्रवरमध्यमावराणां नागानां सुसरोवृष्टिसिक्तसलिलभूमिभागामगरु- धूपितां पुष्पाहघोषेण निष्कल्मषीकृत मनोज्ञां शालां भिषग्यथोपदिष्टमरीला- यत्रम्पकल्प्य सुप्रतिविहितपरिचारकस्य जघननिषण्णस्योर्ध्वग्रीवस्योर्ध्वतो इस्तं कृत्वाऽवसेच पेद शिथिलमन तिबद्ध मतिपीडितमवली क मूवं धारयित्वाऽ गेलायत्रे विषाणयोर्नियमनं कृत्वा ततः सुप्रतिष्ठितकार्य वारणं स्नापयित्वा भिषक्कर्मशा- लामधिरुड हस्तिहस्तश्रो (स्रो) तसि दक्षिणं पूर्वमभिषिच्य वस्त्रमयं मुडुकं शेषतः प्रमाणं सूत्रावनद्धं निर्गमयन्तं निर्वाहणार्थं पयसो' • निधाय पाणिना च पीढये देकेनोद्वासयेत्, एकेन पादातिकायां क्षामणक्रियां कुर्यात्, दत्तमात्रे चास्य पयसि मुखप्रदेशं तालुभागं जिह्वां च गुडदिग्धेन पाणिना संस्पृशेत् । केवलांश्चास्य पाणितलेनोपहरेत् । इक्षुविषमृणालशृङ्गाटक कसेरुकाणामन्यतमं यवसोपगूढं दद्यात् । ग्रहकारणे वाऽस्य निग्रहं कुर्यात् । ततः क्षीरं शर्करा- मधुरं कृत्वा हस्त्रोरसोनिंदध्यात् । न चास्प कवलान्मसक्तान्दद्यात् । ऊर्ध्व- ग्रीवस्याधिक बलत्वं संपद्यते । तस्मादमसिक्तं नागं कवलैः संप्रयोजयेत् । एवं हि कवलान्मक्षयतः क्षीरमन्तः प्रपद्यते । यदा त्वेवं क्षमितः क्षीरमवि संवस (?) मनुहरति, तैदाऽस्य यथाक्रमेण विहितं नस्यं शुद्धिमुपजनयति । ततः पूर्वमिव नस्तः प्रधमनं पिप्पलीमरिच नागरपृथ्वीकाविडङ्ग श्वेत सर्षप सैन्धवतग- राणां द्रोणं पञ्चपलिकं प्रमाण मेकैकस्पौषधस्य सूक्ष्मचूर्ण प्रधमनं दद्यात् । पञ्चपलिकमात्रं प्रधमनं प्रचूर्ण धमनवर्गं तदेव सुरसफणिज्जकपत्ररसं मुखोदकयु- तमस्पस्नेहं विरेचनं दद्यात् । तदेव पूर्वोक्तं पिप्पल्याचष्टद्रव्यं प्रधमनव- र्गम् । अथवा पिप्पलीम रिचशृङ्गवे रचन्दना गुरु सर्जरस श्री वेषकगुग्गुलु ब्वामलक परिपेलव शैलेपकजटामांसी कालानुसार्याणां पलप्रमाणं द्रोणं कृत्वा यथोक्तेन धूपविधानेन हस्त्वं वासयित्वा धूपं दद्यात् । यदा कटश्रोतयोः षट्क- लमष्टकलं वा प्रसक्तमेतेन प्रमाणेन कर्णयोधूपप्रसक्तमुपगच्छति तद्रूपमात्रां १ क. °सो मध्ये नि० । २ क. ख. ततोऽस्य | ३ क. पूर्वमेव । 900000000