पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.१ . रसवीर्यविपाकाध्यायः ] इस्त्यायुर्वेदः । यथाईं गुणयुक्तेषु कारयेद्योगहस्तिषु || प्रतिमोका विधातव्या यथाशाखप्रमाणतः ॥ ६४ ॥ मधूच्छिष्टं व लाक्षां व सह सर्जरसेन व || तेन क्काथेन नागेभ्यः प्रतिमोकांश्च बन्धयेत् ॥' मैत्रे मुहूर्ते कर्तव्यः प्रशस्तेऽहनि पूजितैः || ६५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदें महाप्रवचने चतुर्थ उत्तरस्थाने दशमो दन्तकल्पनाध्यायः ॥ १० ॥ अथैकादशोऽध्यायः । अथ रसवीर्यविपाकाध्यायः । रोमपादो महातेजाश्चम्पाया ईश्वरः स्मृतः ॥ पप्रच्छ स महात्मानं पालकाप्पं तपोधनम् ॥ १॥ रसाः कति समाख्याताः किं वीर्यं किं गुणो भवेत् ।। विपाकश्च महाभाग एतदिच्छामि वेदितुम् || २ || के च सौम्या रसा ज्ञेपाः के चाज्ञेयाः प्रकीर्तिताः ॥ के च वा सेव्यमाना(च) शर्मयन्ति रसा गुणैः ॥ ३ ॥ के पित्तं शमयेयुश्च श्लेष्माणं शमयन्ति के || उदीरपन्ति के वातं श्लेष्माणं पित्तमेव च ॥ ४॥ अरोगो बलवांश्चापि रसैः कैर्वारणो भवेत् || स्थिरत्वं जायते केन क्षारत्वं केन जायते ॥ ५॥ एतन्मे पृच्छतः सर्वं भगवन्वक्तुमर्हसि ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् ॥ ६॥ शृणु मे सर्वमेवैतद्यथां प्रोक्तं नराधिप || निश्चपादेक एवाऽऽह गौतम(म) ऋषिसत्तमः ॥ ७ ॥ यस्मादम्बुमयं सर्वं जगत्स्थावरजङ्गमम् || 900900000 sooto 100000000sea . ॥८॥ अङ्गो हि राजा चम्पापां पालकाप्यं स्मपृच्छति || इक्षुदानं च नागानां श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥

  • रसवीर्यविपाकाध्याये त्रुटितं प्रतिभाति ।