पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • कल्पनाध्यायः ]

इस्पायुर्वेदः । तस्मादिकृष्ट स्निग्धेषु विविक्षां गजदन्तयोः ॥ भिषजा मधुदन्तस्य कारयेद्दन्तकल्पनाम् ॥ ३४ ॥ दन्तजातिपरीक्षा व कल्पना समुदाहृता || उत्सेधायाममायाता यस्य हस्तसमुच्चयाः ॥ ३५ ॥ तदष्टभागतो देयं दन्तयोरुभयोरपि || मिश्रस्य नवभागश्च दशमो गिरिचारिणः ॥ ३६॥ मानसूत्रे स्थिता शेषा कल्पना समुदाहृता ॥ विद्वग्रादक्षिकूटाच नेत्रयोर्वा यदन्तरम् ॥ ४७ ॥ नेत्राभ्यां दन्तवेष्टौ च तयोर्यद्रा मुखान्तरम् || एतत्प्रमाणं संगृह्य यदि स्पात्सर्वतः समम् ॥ ३८ ॥ मसार्य दन्ततः सूत्रं कल्पयेदधिकं ततः ॥ मुखमान विभक्तायां कल्पना समुदाहृता ॥ ३९ ॥ उत्सेधे सप्तकोऽरत्निरायामे नवको भवेत् ॥ दशकं परिणाहे तु कृत्वाऽरत्निसमुखयम् ॥ ४० ॥ एतदङ्गुलपर्वाग्रं मित्वा सूत्रेण तत्त्वतः ।। सूत्रमष्टगुणं कृत्वा कल्पपेदधिकं ततः ॥ ४१ ॥ एषाऽष्टभागनिर्दिष्टा कल्पना समुदाहृता || सप्ताङ्गुलं पर्वितेषु वारणेषु प्रदक्षिणम् ॥ ४२ ॥ ग्रामानीतेषु च पुनः कल्पनीया पडद्गुलम् || विषाणमूलतो मित्वा कल्पपेदधिकं ततः ॥ ४३ ॥ कर्णप्रमाणिका होषा कल्पना समुदाहृता || हासयेदङ्गुलं तस्मान्मिश्ररूपस्य दन्तिनः ॥ ४४ ॥ प्रसार्थ दन्ततः सूत्रं कल्पयेदधिकं ततः ॥ द्विःपरिक्षिषिका होषा कल्पना समुदाहृता ॥ ४५ ॥ समप्रमाणो यो नागा समदन्तश्च यो भवेत् || द्विःपरिक्षे विकारस्य कर्तव्या दन्तकल्पना ॥ ४६ ।। इत्येतेषु प्रमाणेषु निरपामानि दन्तिनाम् || त्र्पङ्गुलं व्यङ्गुलं वाऽपि च्छेदतः परिवर्जयेत् ॥ ४७ ॥ ' आरोग्याप च नागानां विजयाप महीपते ॥ या च पुष्टिकरी राज्ञः सा कार्या दन्तकल्पना ॥ ४८ ॥ १ क. विवक्षां । २ क. °श्रश्व नवभागस्य ३० । ३ ख. ध पार्वतीषु । .