पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६४ पालकाप्यनुमिषिरति [१ शषसोने एषोऽपि विहितो धूपो गजानां व्रणरोपणः) । --;OR= बला चातिबला चैव कुशमूलं तथोटा ॥ ४३ ॥ मधुगन्धाऽधगन्धा च वर्तिः स्पेडुष्टिरोहिणी । जीवन्ती चावकर्णश्च कुम्भी काक्षीव एव च ॥ ४४ ॥ विदारी चारिमेदश्च पलाशः किणिही धवः ॥ आरग्वधोऽथ टिटूको मञ्जिष्ठा मधुकं तथा ॥ ४५ ॥ अधगन्धा च गोजी च क्षीरवृक्षवचस्तथा ॥ एष कर्को भवेद्देयो रोपणो घृतसंयुतः ॥ ४६ ॥ --:: स(शल्लकी क्षीरवृक्षश्च मधूकाश्मन्तकासनाः ॥ जीवन्ती चारिमेदश्च कुम्मी काक्षीव एव च ॥ ४७ ॥ आदारी चंवकर्णश्च पलाशः कुटजस्तथा ॥ व्रणानां रोपणं चैव कषायं कथितं भवेत् ॥ ४८ ॥ -:-:-- भार्गी सर्षपगन्धा च भञ्जिष्ठा रजनीद्वयम् । स्वयंगुप्ता च पाठा च घृतं रोपणमिष्यते ॥ ४९ ॥ एतैस्तु कार्षिकैर्भागैर्युतप्रस्थं विपाचयेत् ॥ जलाढके समावाप्य शनैर्मन्दाग्निना पचेत् ॥ २५० ॥ छिन्नभिनेषु विद्धेषु नाडीदुष्टव्रणेषु च ॥

  • दिग्धविद्धेषु वाऽप्येतद्धूतं शोधनरोपणम् ॥ ५१ ॥

चन्दनागुरुमञ्जिष्ठाशतपुष्पाभियङ्कवेः । बला कालानुसारी च शतपुष्पाः हेरेणवः ॥ ५२ ॥ तीपत्रं च तगरं रोषं नापाघ्रनखं ( तथा ॥ भद्रदारु ) तथैछ। च द्वे हरिद्रे पुनर्नवा ॥ ५३ ॥ कुठे प्रपौण्डरीकं च अञ्जनं मधुकं मधु ॥ मधूच्छिष्टेन संयुक्तं तैलं रोपणमिष्यते ॥ ५४ ॥

  • ‘दग्ध’ इति प्रतिभाति । + कपुस्तके त्रुटितम् ॥

१ क स्यात्कुष्ठरो° । २ क. °श्वगन्धा च कु°। ३ ख. 'चाश्वकर्णश्च ।४ ख. च्यारिमेदश्च । १ क चैतत्कप° । ६ क. हरीतकी। ७ क. तालीसपत्रं त° ८ क, 'थचक्रे द्वे ।