पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ दुित्रयीयध्यायैः ] स्वामीः। १६९ निम्बार्करजनीपत्रैर्मुगापा मूलसंयुतैः ॥ पचेतैलं भिषग्धीरो व्रणरोपणमुत्तमम् ॥ २५५ ॥ एतैरेवौषधैः संधैः शिंशपासारमिश्रितैः । दुष्टव्रणेषु राजेन्द्र तैलं रोपणमुत्तमम् ॥ ५६ ॥

--

प्रियङ्गुका सर्जरसः पुष्पकसीसमञ्जनम् ॥ रोचना मधुकं लोभं चूर्णं रोपण मिष्पते ॥ १७ ॥ --: -- तिनिसार्जुनसकूनां शिंशपासोमवस्कयोः । खदिरस्य च निष्थो निम्बस्य च सभावपेत् ॥ ५८ ॥ रसाञ्जनं रोहिणीं च मातृलुङ्गरसस्तथा ॥ कासीसं हरितालं च रोषणी स्याद्रसक्रिया ॥ ५९ ॥ (+व्रणदोषविरोधेन यथासाम्पं यथावयः । यथानि चेति कर्तव्या क्षीणानां बृहणक्रिया ॥ २६९ ॥ गौरी हरिद्रे मधुकं मञ्जिष्ठा नीलमुपलम् । पटोलारिष्टपत्राणि मालतीनक्तमालयोः ॥ ६१ ॥ घोण्टाफलवमञ्जिष्ठा फलिनी रोधमेव च ।। एतेनैव विधानेन क्रमयुक्तेन दन्तिनाम् ॥ ६२ ॥ स्थूलानां हसनं कार्यं व्रणिनां भिषजा भवेत् ॥ सोमवल्कप्रवालानि मदयन्ती मनःशिला । मधुकं चेति जानीयाद्णवर्णमसादनम् ।। ६३ ।। मधुकं मधु मञ्जिष्ठा क्षुद्रीला गोशकृद्धृतम् । सवर्णकरणं ज्ञेयं दूर्वा सकठशर्करा ॥ ६४ ॥ इतीदं पालकाप्येन द्वित्रणीयस्प लक्षणम् ॥ कृतं भगवता प्रोक्तमङ्गराजाय धीमते । ३स्यब्रवीत्पालकाप्पो राज्ञाऽनेन प्रचोदितः ।। २६५ ॥ इति श्रीपालकाप्ये द्दस्स्यायुर्वेदमहाप्रवचने श्रीपाठे वृद्धोपदेशे तृतीये शल्पस्थाने द्वित्रणीयो नाम प्रथमोऽध्यायः ॥ १ ॥ + कपुस्तके त्रुटितम् । १ ख. °तुलिङ्ग° ।