पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः । एष तथाऽनेकपांना काळासिकान्तहेतुभिः ॥ अज्ञानाद्वा प्रमादाद्वा न कृता दन्तकल्पना ॥ ५ ॥ दार्चे महारिता चैव कल्पितेषु प्रशस्पते ॥ न याविशकलं चापि न च दन्तः महीयते ॥ ६॥ आपसाभ्यां च कोशाभ्यां वज्रदन्तो दृढो भवेत् ॥ मुखं च गुप्तं भवति शोभतं चापि वारणः ॥ ७ ॥ एतदर्थ गजेन्द्राणां क्रियते दन्तकल्पना || बालवृद्धातुरक्षीणमत्तानां व न कल्पयेत् ॥ ८ ॥ वारणानां विषाणानि यदा सेना समुद्यता | क्षीणे त्वमात्पव्यसनं व्याधिते व्याधितो भयम् ॥ ९ ॥ विवाले च कुमारस्य प्रभिनेऽग्निभयं भवेत् || पुरोहितस्य व्यसनं वयोतीते मतङ्गजे ॥ १० ॥ तस्मान कारयेत्तेषां दन्तिनां दन्तकल्पनाम् ॥ सप्तम समतीतस्य न कुर्यादन्तकल्पनाम् ॥ ११ ॥ उद्योगे कल्पिते दन्ते सैन्योद्योगो न सिध्यति । तथा ज्ञायसबन्धेन न सिध्येद्दन्तकल्पना ॥ १२ ॥ (तृणमा श्वयुजे मासे गर्जितं मधुरं हितम् ॥ विमुक्तमम्लभावाच्च जायते प्राणवर्धनम् ॥ १३ ॥ कार्तिके चातिफलदं जातवीर्यरसं तृणम् || मांसशोणितमज्जानां वर्धनं माणवर्धनम् ) ॥ १४ ॥ स्निग्धकालश्च भवति यात्राकालस्तथैव च ॥ अत्यर्थ कल्पनायां तु मासद्वयमुदाहृतम् ॥ १५ ॥ अस्मिन्नेव भवेत्काले नवानां परिशोधनम् || क्ऌप्तमग्रविषाणी तु भूमौ निपतते यदि ॥ १६ ॥ व्याधिरुत्पद्यते चास्य (तस्मिनुत्तदर्शने || एतदर्थ महीपाल कराभ्यां परिगृह्यते ॥ १७ ॥ शान्तनार्थं तु नागस्य) प्रतिमानं निवेशयेत् || तस्य प्रकृतिपूजार्थं निक्षिपेक्षतोदके ॥ १८ ॥ १० दन्तकरूपनाध्यायः ] ६२७

  • अयं धनुश्चिह्नान्तर्गतः पाठो नैतदध्यायोपयुक्तः, किंतु रसवीर्यविपाकाध्यायान्त-

र्गतं भवेत् ॥ + धनुश्विकान्तरगतो नास्ति पाठः कपुस्तके ॥ t