पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्पुनिविरचितो- [४ उत्तरस्थाने- कपोलपायुमन्यासु शोफः सोऽपि न जीवति ॥ . समाभीको मेहनस्तुं यस्य सू (श्व) पति लोहितः ॥ ३४ ॥ उरांसौ च सहसा विगत्य प्रतिपद्यते ॥ सगदे च यदा प्राप्तः स शोफस्तस्प दन्तिनः ॥ ३५ ॥ तदा तेन सशोफेन मासादूवं म जीवति ॥ क्षीणशोणितमांसस्य भूपेते यस्य हस्तिनः ॥ ३६ ॥ अष्ठीयो सहसा यस्य मासादूर्ध्वं न जीवति ॥ मम्ययोर्यस्य लक्षेत (लक्ष्पेत) श्वयथुर्जलचञ्चलः ॥ ३७ ॥ दौर्मनस्पं च सहसा सोऽष्टरात्रं न जीवति || शब्दं प्रश्च न जानाति ताहितं नावबुध्यते ॥ ७८ ॥ न च वेदयते गन्धं न स जीवति तादृशः || अकस्माद्यो भवेच्छ्रनः कुशोऽकस्माच जायते ॥ ३९ ॥ प्रकृतिश्चातिवर्तेत स सप्ताहं न जीवति || c एवमेतान्यरिष्टानि व्याख्यातानि यथायथम् ॥ ४० ॥ नागेषु च मनुष्येषु सदृशं मृगपक्षिषु ॥ प्रतिकर्मसु जानीयादेवं सर्वचिकित्सितम् ॥ ४१ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वे महाप्रवचने चतुर्थ उत्तरस्थानेऽरिष्टज्ञान- कथनं नाम नवमोऽध्यायः ॥ ९ ॥ अथ दशमोऽध्यायः । अथाङ्गाधिपतिः श्रीमात्रोमपादो महाधुतिः ॥ पप्रच्छ पालकाप्पं हि गजानां दन्तकल्पनाम् ॥ १ ॥ दुर्जातानि विषाणानि दीर्घाणि विषमणि तु || कपाटद्वारपरिघप्राकारहरणादिभिः ॥ २ ॥ भज्यन्ते वाऽथ शीर्पन्ते मुञ्चन्ति सकलानि स || रक्षणं तेषु निखिलं भगवन्वक्तुमर्हसि ॥ ३ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥ : विधि शृणु महाराज मम सम्यक्प्रभाषतः ॥ ४ ॥ १ क. °स्थानेऽरिष्टज्ञानं समाप्तम् । ख °स्थानेऽरिष्टज्ञानं संपूर्णम् ।