पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्पायुषः । नाडीछिद्रप्रमाणेन दीर्घामष्टाङ्गुलं भिषक् ।। बृहती फलनिर्यातस्तथा पाण्डुलः ॥ ३१ ॥ निर्गुण्ड्यारग्वधामां च तथा सहचरस्य च ॥ सुरसस्य व पत्राणि पिप्पल्या मरिचानि च ॥ ३२ ॥ आगारधूम इत्येषां वर्ति मंत्रप्रवर्तिनीं ॥ ततस्तीक्ष्णतरां वर्तिमपानेऽन्यां प्रवेशयेत् || ३३ || लवणत्र्यूषणमयीमपानप्रतिपूरणीम् || द्वादशाङ्गलमात्रां तु दीर्घत्वेन प्रवेशयेत् ॥ ३४ ॥ स्वभ्यतस्य च (नागस्य) पूर्वमेव यथाविधि || निःसृतः स्रोतसो वाऽपि प्रदेया नुं विशां पते ॥ २३५ ॥ उपास्य नु मुहूर्तं च तथैवान्यां प्रवेशयेत् ॥ आस्थापनीयवच्चापि सर्वेष्वेव विधिर्हितः || ३६ ॥ बस्तिदानप्रमाणेन वक्ष्यन्ते परतस्ततः || नेत्रबस्तिः कृतस्वैवं चतुष्पादकृतास्तथा ॥ ३७ ।। षड्डिधा व्यापदस्तासां योनिशुद्धिय वक्ष्यते ॥ अतिमात्रप्रवेशं च हीनमात्रं तथैव च ॥ ३८ ॥ तिर्यगूर्ध्वमधश्चापि नेत्रस्य क्षेपणे तथा ॥ • पुन: पुनस्तथोऽत्यर्थं मृदु यश्चापि पीडितम् ॥ ३९ ॥ अतिमात्रं तथा हीनं व्यत्यासाद्वेषजस्य च ॥ कालातिनयनं चैव बन्धशैथिल्यमेव च ॥ ४० ॥ भिषग्दोषकृता ज्ञेयास्तासां दोषमतः शृणु || तत्र नेत्रे विचलिते बलाक्षिप्ते ततस्ततः ॥ ४१ ॥ प्रतिनिष्पीडिते नेत्रे क्षण्यन्ते वलयोऽपि वा ॥ असंप्राप्तेऽथवा तिस्रो वलीनेत्रे च पीडिते ॥ ४२ ॥ प्रतिनिष्पीड्य ते बस्तिर्वायुर्वेगेरितस्तथा ॥ गतेऽपि वा गुदमुखं पुरीषे प्रतिहन्यते ॥ ४३ ॥ दुर्बले बस्तिनेत्रे वा दुर्बले वाऽपि सिञ्चति ॥ अतिमात्रप्रवृत्तेषु वेदना स्यात्पुरा गुदे ॥ ४४ ॥

  • ख. घ. पुस्तकयोर्नोपलभ्यते ।

4 परिसदानाध्यायः । → १ क. तु । २ ख. घ. सर्वस्वेव | ३ क. धिर्मतः । ४ ख. घ. 'तास्वैवं | ९ क. °थाऽभ्यर्थ | ६ क. क्षणान्ते । tata