पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • विनयाध्यवः] हस्त्यायुर्वेदः ६६१

वयं संरोपयेऊँचो हस्तिनां व्रणमुत्थितम् । ईषतु विषमं निनं मृदुमांसमवेदनम् ॥ ९२ ॥ अशीप्ररोहिणं चैव कषायेणोपरोहयेत् । व्र पाकाभसर्पन्तमतिस्नेहादरोहणम् ॥ ५३ ॥ मांसे वा त्वचि वा जातं.रोपयेत्कर्करोपणैः । निन्नमीषद्विश्रख)वेण किंचिपित्तसमन्वितम् ॥ ५४ ॥ स्थैर्यादनुपरोहन्तं रोपयेत्सर्पिषा व्रणम् । ईषद्वतातुरं सिद्धं भिषग्व्रणमवेदनम् ॥ १५ ॥ रोपणीयेन तैलेन शास्रदृष्टेन साधयेत् ॥ प्रशान्तोपद्रवं स्रिग्धर्मातिस्नेहाद्विसर्पणम् ॥५६ ।। रोपयेरिस्थरमांसं च व्रणं चूर्णेन दन्तिनाम् ॥ मृदुमांसस्वतिस्नेहाद्यो व्रणो नोपरोहति ||५७ ॥ स रस क्रियया साध्यो मृदुमांसश्च संधिजः ! वातश्लेष्मोचयाक्लिनं रोपयेद्धेष योगतः ॥ १८ ॥ शुद्धाशुद्धे भवेद्देयो दन्तिनामोदो व्रणे ॥ यथा स्वमष्टवर्गेण सम्यग्वस्थंदिना भवेत् ॥ ५९ ॥ सिरास्नाय्वस्थिकोष्ठेषु तथा संधिषु च व्रणः । गम्भीरा विषमस्थूलास्ववगाढा गुरुक्रमाः ॥ १६० ॥ साध्या बैन्धादिना वेते बन्धस्तु व्रणशोधनः ॥ समो गाढोऽथ शिथिलो व्रणबन्धः प्रकीर्तितः ॥ ६१ ॥ कण्ठे मेण्ट्रे तथा नाभ्यां पाष्णिग्रीवळ पार्श्वयोः । बस्तिशीर्षे च राजेन्द्र समो बन्धस्तथोदरे ॥ ६२ ॥ गाढः शिरसि कर्तव्यः स्फिक्कक्षे च सपिण्डके । इन्वोः पृष्ठे गुदे कुण्ठे बावोः स्कन्धे तथा त्रिके ।। ६३ ॥ व्रणबन्धस्तु कर्तव्यः शिथिलः सर्वसंधिषु । सोष्माणो रक्तपित्ताभ्यां संरब्धाः सविषाश्च ये ॥ ६४ ॥ त्रणा विसर्पिणो ये च बन्धस्तेषां न शस्यते । यो बन्धमवबन्धं च विद्यासम्यग्विचक्षणः ॥ १६५ ॥ १ क. संगोप°। २ क. 'गदे व्र° । ३ क. °णाः । यथा । गम्भीरवि° । ४ क. गुरुक्रमैः। १ क. वध्यादि९ । ६ कः सपिण्डकौ । ४६