पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- उष्णश्चैवोष्णवीर्यश्च गुरुश्चापि प्रकीर्तितः ॥ वातरोगहरी वृष्यः स्रोतसां परिशोधनम् || ७३ ॥ तैलादधं घृते मात्रा ततोऽधं त्रिवृता भवेत् || मज्मश्चैव वसायाश्च मात्रा प्रायोगिकी स्मृता ॥ ७४ ।। इति स्नेहगुणाः प्रोक्ताः कालाफालौ व हस्तिनाम् ॥ अतः परं प्रवक्ष्यामि स्नेहपाने विधि नृप || ७५ ॥ शालां सुगुप्तां सुच्छ (च्छ) मां सर्वतः कटकैर्वृताम् ॥ • देशे यथोक्ते कुर्वीत नित्यं बलिविभूषिताम् ॥ ७६ ॥ अजातपर्व तरुणं शुचि चोपहरेत्तृणम् || पथाकालं यथामात्रं स्थलजं व विशेषतः ॥ ७७ ।। उष्णोदकः (कं) कटाहानि स्नानपानाय दन्तिनाम् || नित्यं संनिहितानि स्युः स्नेहकाल उपस्थिते । ७८ ।। अलिन्दांश्च घटांश्चैव पर्याप्तानुपकल्पयेत् || पानार्थे चैव तैलस्य सलिलस्य च हस्तिनः ॥ ७९ ॥ काष्ठा न्युष्णोदकस्पार्थे संयुष्कान्युपकरुपयेत् || कुशलांश्चापि गृह्णीपात्रागस्य परिचारकान् ॥८० ॥ वैद्यं च शास्त्रकुशलं दृष्टकर्माणमेव च || इस्त्यध्यक्षं च तत्रैव संदिशेत्पितृवद्धतम् ॥ ८१ ॥ मुखद्वारविश्वद्धाय सुकृतं पानपापिने || इस्तैः सुमतिं कृत्वा तैलं नागस्य दापयेत् ॥ ८२ ॥ दापयित्वा त्र्यहं मद्यं ततो रूक्षं च भोजनम् || विरूक्षितशरीराय स्नेहं नागाय दापयेत् || ८३ || उपायं चापि मुकृतं तैलं चक्रसमुद्रवम् || स्थापयेद्भोजने स्निग्धे तैलं दद्याद्विचक्षणः ॥ ८४ ।। उपार्जपेष त्रिवृतं सर्व स्नेहसमुद्भवम् || पानार्थे च वसा ग्राह्या गात्राभ्यङ्गे च हस्तिनाम् ॥ ८५ ॥ मापपित्वा प्रमाणेन यथोक्तेन तु बुद्धिमान् ॥ यथोक्ते तिथिनक्षत्रे स्वस्थं विज्ञाय वोरणम् || ८६ ॥ [ ४ उत्तरस्थाने- भक्ततैलप्रमाणेन श्रेष्ठां मात्रां प्रदापयेत् || ● पादहीनं(नां) तथा मध्यां मध्यार्धेन कनीयसीम् || ८७ || १ क. ख. ध. स्वच्छं । २ ख. घ. चारणम् |