पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४ उत्तरस्थाने- पालकाप्यमुनिविरचितो- स्नेहं प्रवाते पिबतो वायुरङ्गानि बाधते ॥ अजीर्णाध्यशनाद्वाऽपि स्नेदे कोष्ठे व्यवस्थिते ॥ ४३ ॥ आनाहो वा भवेत्तस्य मरणं वाऽपि जायते ॥ अतितौयावगाहाच काय़ाग्रिरुपशाम्पति ॥ ४४ ॥ पिपासा वर्धते चापि स्नेहस्तस्य न पच्यते ॥ यदि पीत्वा गजः स्नेहं जेलमकथितं पिबेत् ॥ ४५ ॥ तेन तस्यापचारेण स्नेहो भवति दुर्जरः ॥ वेदना सर्वगात्रेषु वमथुश्चापि जायते ॥ ४६ ॥ कुक्षिर्विहन्यते चास्य दौर्मनस्यं भवत्यपि || सात्म्यासात्म्य विपर्यासात्स्नेहपीतस्य दन्तिनः ॥ ४७ ॥ जायते चापि दौर्बल्यं रोगा: प्रादुर्भवन्ति च || अतिचङ्क्रमणाद्वाऽपि सद्योव्यायामसंभवः ॥ ४८ ॥ बायुः प्रचलितः स्थानात्सर्वाण्यङ्गानि बांधते || पाकलस्तस्य भवति प्रैवोपो (?) वाऽतिदारुणः ॥ ४९ ॥ भेदश्च पर्वणां चापि गात्राणामपि वेष्टनम् || स्नेहोपयोगाद्विगुणः परिहारो विधीयते ॥ ५० ॥ विरुक्षणं बृंहणं च कर्मणश्च प्रवर्तनम् || तस्मात्कुपद्धो वैद्यस्तैलपाने त्ववेक्षणम् ॥ ५१ ॥ दुर्युक्तं तैलपानं तु विषं हालाहलं भवेत् || इत्येष स्नेहपानस्प कालाकालविधिः स्मृतः ॥ ५२ ॥ स्थावरी जङ्गमश्चैव द्विविधः स्नेह उच्यते ॥ तस्य चैवं प्रयुक्तस्प विकल्पा बहवः स्मृताः ॥ ५३ ॥ सर्पिस्तैलं वसा मज्जा मेदो मांसं पयो दधि || एवमादि विजानीयात्स्नेहजातं पृथग्विधम् ॥ ५४ ॥ तिलादिजस्तु यः स्नेहः स्वशास्त्रे परिकीर्तितः ॥ स्थावरस्तु समाख्यातो नानाफलसमाश्रयः ॥ ५५ ॥ तत्र सर्विसा मज्जा तैलं चैवोत्तमं स्मृतम् || घृतं तु सविशेषत्वात्तेषु श्रेष्ठतमं स्मृतम् || ५६ || यथावदनुपूर्वेण गुणांस्तस्य निबोध मे || मधुरं शीतवीर्यं च लघु चैवाविदाहि च ॥ ५७ ॥ १ ख. घ. साधते । २ क. प्रवापो ।