पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः । अथातश्चतुर्थमुत्तरस्थानमारभ्यते । अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥ हितं निःश्रेयसं चैव गजानामनुचिन्तयन् ॥ १ ॥ यदा मयेयं विजिता सागरान्ता वसुंधरा || तदा मे वारणैस्तुल्यं न कृतं कर्म केनचित् ॥ २ ॥ गुरुभाराभिवहनं गमनं विषमेषु च ॥ तरसा मर्दनं चैव तरणं सलिलस्य च ॥ ३॥ तीव्राघाता विघाताश्च तोयौघस्यावतारणम् || सर्वगात्रायुधत्वं च वारणेष्वेव दृश्यते ॥ ४ ॥ नान्यैरसंमिताः सन्ति गुणा दन्तिषु केवलम् || त्रिविधेष्वपि ये न स्युर्बलाङ्गेषु महामुने ॥ ५ ॥ अम मे पैर्गुणैरे तैर्बला प्रथमं गजाः ॥ अपि शालागताः कृत्स्नां रक्षन्ति सनृपां महीम् ॥ ६ ॥ कथं ते भगवत्रागा नीरोगा बलशालिनः || भवेयुर्जवसंपन्ना बलिनो मददर्पिताः ॥ ७ ॥ तेषां मे भगवन्मश्नमिममाख्याहि पृच्छतः ।। तैहि मे वाहनं तुल्पमन्यद्भुवि न विद्यते ॥ ८ ॥ तेषां कतिविधः स्नेहः कीदृशः किंमयोजनः ॥ कत्युपायाः कथं चापि प्रदातव्यो विजानता ॥ ९ ॥ यच्चान्यदपि नागानां कर्तव्यं हितमिच्छता || सदशेषेण भगवन्सर्व व्याख्यातुमर्हसि ।। १० ।। ततः प्रोवाच भगवान्पालकाप्यो महामुनिः || पृच्छते रोमपादाय प्रश्नं गजहितं शुभम् ॥ ११ ॥ सर्पिस्तैलं वसा मज्जा संस्कृतासंस्कृतं भवेत् || वारणेभ्यः प्रदातव्यं स्नेहजातं चतुर्विधम् ॥ १२ ॥ सर्वौषधप्रयोगेभ्यः स्नेहपानं मतं मम || स्नेहपानं प्रशंसन्ति पूर्वाचार्या मनीषिणः ॥ १३ ॥ सद्धि वर्णकरं बल्यं सर्वव्याधिहरं स्मृतम् || उत्तमाघममध्यानां कुञ्जराणां यथागमम् ॥ १४ ॥ .१ क. विषयेषु । २ ख. घ. संस्मिताः | ३ क. प्रदातव्या ।