पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिषिरचितो— षटकुला नदीजस्य वृद्धिर्भवति दन्तयोः ॥ अष्ट्यधं विश्वरूपस्प त्र्यङ्गुलं गिरिचारिणः ॥ ५२ ॥ मारुतस्तु यदा चे(वे)ष्टौ दूषयित्वोष्मणा सह ॥ मत्कुणस्तेन जायेत अंग्राह्यः स तु दन्तिनाम् ।। ५३ ॥ एकवेष्टनिरोधेन एकदन्तो भवेन्नृप । द्विदन्तानां तु नागानां प्रकृत्या जायते नृप ॥ ५४ ॥ त्रिदन्ताश्चापि जायन्ते चतुर्दन्तास्तथाऽपरे || पिशाचाश्चासुराश्चैव न तेषां ग्रहणं स्मृतम् ॥ ५५ ॥ गृहीताः पापमिच्छन्ति स्वभावानुगतास्तथा ॥ स्पृशन्ते पस्प सङ्क्राय दृश्यन्ते वा नराधिप ॥ ५६ ॥ न तस्य ग्रहणं कार्य परराष्ट्र तमुत्सृजेत् || न्यूनाधिकत्वं नागानां वैषम्यं वैकृतं तथा ॥ ५७ ॥ तत्सर्वं मारुताद्विद्धि समत्वं चैव पद्भवेत् || इत्यत्रवीत्पालकाप्यो रानाऽङ्गेन प्रणोदितः ॥ ५८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेदे महाप्रवचने महापाठे वृद्धोपदेशे तृतीये शल्यस्थाने दन्तोद्धरणं नाम चतुत्रिंशोऽध्यायः ॥ ३४ ॥ समाप्तं वेदं तृतीयं शल्पस्थानम् || १ क. मारुतस्य ।