पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ चित्रणीयाध्यायः ॥ हस्त्यायुर्वेदः। २५९ उपक्रमविधिस्वन्यः शास्रयोगात्मवक्ष्यते ॥ --५०:- ओषधीसंश्रिता। योनिस्रयोविंशतिलक्षणा ॥ २४ ॥ विलायनं पाचनं च भेदनं पीडनं तथा । सादनोत्सादने चैव कृमिनमथ चापरम् ॥ १२५ ॥ लेपः स्वेदोऽगदः क्षारो मृदुदारणयोः क्रिया । बृह्णं चापकर्षश्च संधानं शिशिरक्रिया ॥ २६ ॥ शोणितस्थापनं चैव कण्डूनं धावनं तथा ॥ प्रसादनं च वर्णश्च सवर्णकरणं तथा ॥ २७ ॥ बन्धकल्पश्च विज्ञेयस्रयोविंशतिमं पदम् ॥ व्रणावस्थान्तराच्चैषां प्रग्रोगः संप्रवक्ष्पते ॥ २८ ॥ श्वयथोरविदग्धस्य कार्यं स्यात्प्रविलायनम् ॥ विदन्माने कर्तव्यं श्वयथोः पाचनं भवेत् ॥.२९ ॥ पक्कस्य तु भवेद्भदस्तथा शोधनरोपणम् । छवीसवर्णकठिनं परुषं वाऽपि वर्णतः ॥ १३० ॥ मन्दोष्माणं तथा स्तब्धमाममित्यभिलक्षयेत् ॥ विवणं नातिकठिनं सोष्माणं वेदनार्दितम् ॥३१॥ विद वमानं जानीयाच्छूयर्थं कुशलो भिषक् । सर्वतो मार्दवं शैत्यं पाण्डुता शीर्णरोमता ॥ ३२ ॥ वेदनोपशमश्चैव श्वयथोः पक्कलक्षणम् । दुष्टकृशातिभीणां व्रणान्संवृतदेशजान् ॥ ३३ ॥ सूक्ष्मांश्चानतिपक्कांश्च मेदनीपेक्षपाचरेत् ॥ वेदनाबहुले दृष्टे शिरामर्मसमाश्रिते ॥ ३४ ॥ संधिजे वाऽपि कर्तव्यं दन्तिनां पीडनं व्रणे ॥ केवलं यस्तु संधानमल्पदोषो न गच्छति ॥१३५॥ संधानं तस्य कर्तव्यं संधानीयैरुपक्रमैः । अस्थिनानुगतं दुष्टं तनु स्वयंमुखं व्रणम् ।। ३६ ॥ गतिमन्तमजनं च शोधयेद्वर्तिशोधनैः । पिच्छिलं विस्तृतं छिनं दुर्गन्धं पूतिवद्व्रणम् ॥ ३७ ॥ १ क. °न्प्रचक्षते । २ क. प्रमादनं । ३ क 'भिधीयते ॥ वि° । ४ ख. °ल्यसुखं । १ क. °न्धं प्लोतव° ।