पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० सत्रविध्यध्यायः ] इस्स्यायुर्वेदः । ५३१ कमुखं कुलिशमुखं चेति । तिस्र एषिष्यः | एकविंशतिरेव वाडयोमयानि साधनानि भवन्ति । तेषां संस्थानं प्रमाणं कर्माणि वक्ष्यामः - तत्र दशाङ्गुल- प्रमाणं वृद्धिपत्रम् | षडङ्गुलप्रमाणं वृत्तम् । चतुरफुलप्रमाणं पत्रम् | त्र्पङ्गुल- विस्तीर्णं पाटनार्थं छेदनार्थं चेति । षढङ्गुलवृत्तमर्धाङ्गुलं सर्वतः । तत्र पूर्णच- न्द्राकृतिरग्रे मण्डलाग्रम् | लेखनाथ मोहिमुखम् । उत्पलपत्रक मष्टाङ्गुल मेवे कम् । तच्चाष्टाङ्गुलममाणमध्यङ्गुल विस्तृतमुभपतोधारं (* बींदमुखाकृति ब्रीहिमुखम् । मुञ्जभेदनार्थं छेदनभेदनार्थं चेति । नवाङ्गुलं कुशपत्रम् । पञ्चा- ङ्गुलं वृत्तम् । चतुरङ्गुलं पत्रम् । अध्यर्धाङ्गुलतुलविस्तृतमुभपतोधारं ) कुशप- त्राकृति गम्भीरपाकभेदनार्थं पढङ्गुलं वृत्तम् । अध्यर्धाङ्गुलं पत्रम् | पूर्णचन्द्रा- कृत्याग्रमण्डलाग्रम् | लेखनार्थमक्ष्णो व्रीहि मुखममाणमुत्पलपत्रं भेदनार्थं कुठा- राकृति कुर्यात् । कुठारो ( ? ) शस्त्रप्रच्छेदनार्थम् । वत्सदन्ताकृति वत्सदन्तं दशाङ्गुल॑म् । एकैकमध्यर्धाङ्गुलमुखम् । एवमेतानि च त्रीण्यपि यथायोगं प्रच्छ- आर्थम् | सूची सेवनार्थम् | अष्टाङ्गुलं नागदन्ताकृति । त्रपस्ला चतुरस्रा वा दृढा समाहिता समा वा शलाका वने वर्त्मविधृत्यर्थम् | रम्पकस्त्रयङ्गुलमुखी दशाङ्गुल- वृत्तः पादशोधनार्थं नखच्छेदनार्थं चेति । एषणी दशाङ्गुला विंशत्पङ्गुला त्रिंशद- जुला यथायोगमञ्जनशलाकाकृति मुखतः लक्ष्णा समा चैवमेतास्तिस्त्र एषण्यः प्रमाणतः कार्याः | कोरण्टकपुष्पाकृति मुखनेत्रताम्रायसं षोडशाङ्गुल- मनुपूर्वं व्रणानां प्रक्षालनं कुर्याद्भडिशं चक्राग्रमष्टाङ्गुलप्रमाणमक्ष्णोः पटलोद्धर- णार्थं चेति || तत्र श्लोकः- Bildem यथोक्तान्येवमेतानि शस्त्राणि विधिवद्भिषक् । कारपित्वा पथायोगं कुर्याव्रणविदारणम् || इति श्रीपालकाप्ये इस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने. त्रिंशः शस्त्रविधिरध्यायः ॥ ३० ॥ अथैकात्रंशोऽध्यायः । क्षारयोगं प्रवक्ष्यामि यथा सिध्यति कुर्वतः ॥ विविधानां विकाराणां क्षारः प्रशमने हितः ॥ १ ॥

  • धनुराकारमध्यस्यः पाठो नास्ति कपुस्तके ||