पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ प्रदेशज्ञानाध्यायः ] इस्त्यायुर्वेदः । अथैकोनत्रिंशोऽध्यायः । अथातः प्रदेशज्ञानं नौमाध्यायं व्याख्यास्यामः । इति ह स्माऽऽह भगवान्पालकाप्यः । इह खलु शरीरं मूलम् | सन्मूलान्य- प्रत्यङ्गानि लोकप्रसिद्धानि । पञ्चदश प्रदेशाः प्रत्यङ्गानोत्पनर्थान्तरम् ॥ तत्र प्रदेशानामग्रेऽङ्गुलिः । अङ्गुल्यभ्यन्तरे वर्त्म | ततः स्रोतसी । एतयोर- न्तरं श्रो(सो) तोन्तरम् । तस्मात्पुष्करम् | पुष्करे राजिः । (तदुपर्यङ्गु- लम् ।) अङ्गल्या उपरि गण्डूषः । ततोऽग्रहस्तः । गण्डूषपार्श्वयौः श्रीः । एत- योरम्पन्तरं गण्डूषा | तदुपरि बहिष्कर्षः । एतस्य दक्षिणपार्श्व आकर्ष: । वामपार्श्वे परिकर्षः । पृष्ठत उपकर्षः | तस्यैवाभ्यन्तर उत्कर्षः । एतेः प्रदेशैः सम- न्वितोऽग्रहस्तः | बहिष्कर्षादुपरि मध्ये हस्तस्य संभोगः । एतस्य पार्श्वयोई- स्तबाहू । तयोश्चाभ्यन्तरं संभोगान्तरम् | संभोगस्योपरि त्रिराजिः | त्रिराजेरु- परि पर्व | तस्योपरि स्थूलहस्तः । एतस्याभ्यन्तरे पलिहस्तः | पलिहस्तस्यो- परि पृथुहस्तः । पृथुहस्तस्याभ्यन्तरेऽतिहस्तः | अतिहस्तस्याभ्यन्तरे राजयः । सर्वगता वलयश्चेति ॥ तत्र श्लोकः- - अङ्गुलीप्रभृति प्रोक्ताः क्रमेण द्विरदस्य ते । अष्टौ च विंशतिश्चैव प्रदेशा हस्तमाश्रिताः || आस्ये कृष्णान्त (र) म् । ततस्तालु | तालुमध्ये श्री (स्त्रो) तसी । अतो मध्ये तालुवंशः । ततो जिह्वाभ्यन्तरे भक्षणार्थं दशनाः षोडशाधस्ताच्चोपरिष्टाञ्च | तेषु चतस्रो दंष्ट्राः । तत ओष्ठः | तस्याभ्यन्तरे वर्त्मनी । तत ओष्ठमस्राव ओष्ठपा- र्श्वयोः | आष्ठबाहू अधस्तात् | ओष्ठसंधी ओष्ठसंध्योः । ततः सकिणी । ओष्ठाधो रोमकूर्च इति ॥ वत्र श्लोकः- कृष्णान्तादप इत्येते क्रमशः परिकीर्तिताः । प्रदेशा मुखसंबद्धास्त्रिशदिद्द तु संख्यया || दन्तयोर्दन्ताग्रे दन्तमध्ये दन्तमूले | दन्तपोरुपरि दन्तवेष्टौ । एतयोरु- परि प्रवेष्टाविति || + धनुश्चिान्तर्गतः कपुस्तके नास्ति । १ क. नाम व्या । २ क. पुष्करमध्ये |