पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ [१. शस्यस्थाने- पालकाप्यमुनिविरचितो यावन्त्येतानि सर्वाणि घृतं सावस्मदीपयेत् || तत्सर्वमेकतः कृत्वा शनैर्मृमिना पचेत् ॥ २० ॥ एवं तु पाययेन्नागं विषं तेन प्रशाम्पति || इत्यत्रवीत्पालकाप्यो राज्ञाऽङ्गेनाथ नोदितः ॥ २१ ॥ इति श्रीपालकाध्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थाने सप्तविंशो विषकीटचिकित्साध्यापः ॥ २७ ॥ अष्टाविंशोऽध्यायः । अथ व्यालेन दष्टस्य लक्षणं वारणस्य च ॥ चिकित्सां च महाराज शृणु कीर्तयतो मम ॥ १ ॥ व्यालो पदाऽक्षिकाविष्टो वारणं दशति प्रभो ॥ बातमूर्छानिदानानि द्विरदः कुरुते तदा ॥ २ ॥ व्यालवद्रमते क्रुद्धो वित्रसेच जलाशयात् || व्यापऋचित्तश्च गजो मूर्छते व्यथतेऽपि च ॥ ३ ॥ एतल्लक्षणविज्ञानं चिकित्साऽतः प्रवर्तते || दहेच्छलाकया तस्य दशां भिषगतन्द्रितः ॥ ४ ॥ समन्ताच्चापि दष्टस्य कार्य शोणितमोक्षणम् || तस्य कार्य विशेषेण रात्रि क्षिप्तचिकित्सितम् ॥ ५॥ या तु वातगतिः प्रोक्ता क्रियास्तस्य तु कारयेत् ।। धूपाञ्जनाभ्यङ्गविधेस्तस्य रक्षोन्नमिष्यते ॥ ६ ॥ काउपपस्य मताच्छेषं चिकित्सितमुपाचरेत् || अनाविष्टश्चिकित्स्यः स्यादाविष्टेश्व न सिध्यति ॥ ७ ॥ तत्र श्लोकः- इक्षुविकार: पललं तिलतैलं क्षारमार्कमिति || पीतं सद्यो विषमिह शुष्का श्रमिवानिलः क्षिपति ॥ ८ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्पस्थाने व्यालदष्टो नामाष्टाविंशोऽध्यायः ॥ २८ ॥ १ क. °स्य न । २ क. विषं हन्ति शु° ।