पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुमिचिरचिती --- [३] शा एंलां मधुरसा चैव लक्ष्णपिष्टानि कारपेत् ॥ तेनास्य व्रणमालिम्पेवताक्तेन पुनः पुनः ॥ १४ ॥ दाहो निवर्तते तेन वेदना चोपशाम्पति || लभते सौमनस्यं च पवसं चाभिनन्दति ॥ १५ ॥ रोधं च मांषपर्णी व हरिद्रे चाप्युभे तथा ॥ क्षीरिकायाः शतावर्याः पयसा च घृतं पवेत् ॥ १६ ॥ ततोऽस्य दग्धं नागस्य नक्षणेन प्ररोहति || अथवा रोपणं तैलं विपद्येतेन रोपयेत् ॥ १७ ॥ मांसी समजाममृतां माषपर्णी तथैव च । मधुकं व समञ्जिष्ठं कुशमूलं च पेषपेत् ॥ १८ ॥ एतत्सर्वं समाहत्य क्षीरेण सह योजयेत् ॥ तत्तैलं पाचयेद्धीरो यथायोगं यथासुखम् ॥ १९ ॥ तेनास्य व्रणमभ्पङ्गानित्यमेवमतन्द्रितः ॥ क्षिप्रं मरोहते तेन अमदग्धं समन्ततः ॥ २० ॥ तथैव कारपेचूर्ण रोपणं मनुजाधिप । पचं समझा तगरं जीवकर्षभकावुभौ ॥ २१ ॥ मधुकं धातकीपुष्पं रोषं सेर्जरसं तथा ॥ बलामतिविषां चैव सूक्ष्मचूर्णानि कारयेत् ॥ २२ ॥ प्रतिचूर्णनमेवं स्पादिदमन्यच रोपणम् || सुपिष्टानय कृष्णांश्च तिलांस्तु मधुना सह घृतेन मिश्रयित्वाऽथ रोपणं वा प्रलेपनम् ॥ २३ ॥ सुपरूढवणं नागं प्रसूनत्वक्तनूरुद्दम् || दोषप्रशमनार्थाय घृतेन सद्द मोजपेत् ॥ २४ ॥ इत्यङ्गराजो विधिवद्धस्तिशाखसमाश्रयम् ॥ श्रावित (तः) पालकाप्पेन अग्रिदग्धचिकित्सितम् ॥ २५ ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने वृद्धोपदेशे तृतीये शल्पस्था- नेऽमिदग्धचिकित्सितं नाम पञ्चध्यायः ॥ २५ ॥ १ ख. शालां | २ ख. सर्वर । ५१०