पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यनिविरचिती- : [१ शस्यत्वा यावच्छ निरुद्धस्तु वापुस्तिष्ठति मर्मणि ॥ तावत्सल्यमाणेषु स जीवति मृतोऽन्यथा ॥ २४ ॥ अथ बैगुण्यकारीणि अपस्कारस्तथैव च || विज्ञाय तु गुहाभागौ क्षपभागं ततः परम् ॥ २५ ॥ अस्मे चैव विभागे च फरस्प श्री (लो) तसी तथा || प्रतिमानं गुहाभागौ चत्वारो ग्रन्थयस्तथा ॥ २६ ॥ तथाऽन्तरपरे स्यातां प्रवक्ष्याम्पत उत्तरम् || • करच प्रत्यगंसौ च प्रतीकासो तथैव च ॥ २७ ॥ नेत्रे चैव महीपाल मुनिभिः परिकीर्तिते ॥ ग्रीवा चान्तरसूना व वाहित्यं च नराधिप ॥ २८ ॥ पेचकश्च विसाने च वैगुण्पकरसंग्रहः ॥ एतान्येव चतुर्खिशत्प्रोक्तानि मनुजाधिप ॥ २९ ॥ स्थिरा यतः सौम्यगुणाः स्थिरत्वाच्च न मृत्युदाः ॥ तस्मात्त द्वैगुण्यकरं मृत्युदं केशपेत्र तम् ॥ ३० ॥ इति सप्तोत्तरं प्रोक्तं शतं ते मर्मणां मया ॥ धैर्य वीयं बलं सत्त्वं संघातः पौरुषा गुणाः ॥ ३१ ॥ एतेष्वधिष्ठिताः सर्वे गुणा मर्मस हस्तिनाम् || यस्मात्तस्मात्क्षते तत्र प्राणांस्त्यजति वारणः ।। ३२ ।। मारणादुच्यते मर्म नैरुक्कैः शास्त्रनिश्चपात् || तथैवाष्टविधं प्राहुः संरुपया मनुजाधिप ॥ ३३ ॥ शिरामर्मास्थिमर्माश्च (?) धमनीमर्म चापरम् || स्नायुमर्म च विज्ञेयं कोष्ठमर्म तथैव च ॥ ३४ ॥ संधिमर्म च विज्ञेयं स्त्रोतोमर्म तथैव च || दोषमर्म च विज्ञेयं वक्ष्यन्ते तत्र हेतवः || ३५ ॥ शिरामर्मण्यभिहतो रक्तश्रा (स्त्रा) वाद्र जोऽधिकः || क्षिप्रं वियुज्यते माणेस्तस्मात्तदभिरक्षपेत् || ३६ || अस्थि मर्मण्यमिहतः शुक्रमज्जापरिश्र (ख) वात् ॥ परित्जेयद्द्वजः प्राणानस्थिधातुक्षयात्ततः ॥ ३७ || हिंस्यते धमनीमर्म यदा नागस्य मर्मसु || तदाऽप्यगुण निश्रा (खा) वाजस्त्यजति जीवितम् ॥ ३८ ॥ १ क. ख. मृतेऽन्य° । २ क. ख. शिरोम° ।