पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ मर्मविद्धाध्यायः ] इस्त्यायुर्वेदः । तथा सशल्पमाणं च वायव्यं कथ्यते बुधैः ॥ सौम्यं वैगुण्यकरणमिति पूतगुणाश्रयः ॥ १० ॥ सद्यःमाणहराण्यादौ तत्र वक्ष्यामि पार्थिव || गुदोऽण्डकोशो हृदयं मेण्ट्रं पणवकस्तथा ॥ ११ ॥ मन्यामागे विवेकश्च गेलो नाभिस्तथैव च || मृदुकुक्षी सनिष्कोशौ कक्षाभागो तथा तलाः ॥ १२ ॥ वक्षणौ मुष्कभागौ च तालु जिह्वा स्तनान्तरम् ॥ रन्ध्रौ कुम्भं तथा वक्षः कण्ठश्वोदरमेव च ॥ १३ ॥• करीषास्त्राव इत्येवं सद्यःप्राणहराणि तु || चतुत्रिंशत्तु मर्माणि निर्दिष्टानि मनीषिभिः ॥ १४ ॥ अभिजवायो यस्माज्जीवश्चाग्निसमाश्रयः ॥ तस्मात्तत्र क्षते क्षिप्रं प्राणांस्त्यजति वारणः ॥ १५ ॥ कालान्तरमाणहराण्यथ वक्ष्यामि तच्छृणु || प्रोदे सकुठि के त्र्यस्थिसंदानौ तलसंधयः ॥ १६ ॥ विक्षोभौ कूर्मभागौ च उरःसंधिरुरस्तथा ॥ पलिहस्तौ यतस्थाने अन्तर्बाहू तथैव च ॥ १७ ॥ कालान्तरविनाशीनि पाप्याभागौ च पार्थिव || निर्माणे चैव कुम्भे च स्रोतसः कुम्भयोरपि ॥ १८ ॥ भीरिके च महीपाल पुरस्कारे तथैव च ॥ पञ्चविंशतिरेतानि ज्ञेयानि परिसंख्यया ॥ १९ ॥ . क्रमाद्यावत्क्षपयति साम्पस्तेजोगुणैर्गुणात् || यस्मात्क्रमेण म्रियते कालमाणहरं ततः ॥ २० ॥ तत्रोपद्रवजातं च रोमस्थमभिलक्षयेत् ॥ ततः सशल्पप्राणानि प्रवक्ष्याम्यनुपूर्वशः ॥ २१ ॥ निर्माणश्चैव कुक्षी च स्रोतसी कर्णयोस्तथा ॥ कुम्भश्चैव महीपाल पुरस्कारोऽथ चूचुके ॥ २२ ॥ स्पातामक्षिगुदे चैव बिदुलं वदतां वर || विद्यात्सशल्पप्राणानि मर्माणीह चतुर्दश ॥ २३ ॥

  • भूत इति स्यात् ॥

१ क. गणना |