पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- [ शस्यस्थाने केसाभागे मर्म नवाङ्गुलप्रमाणम् । वक्षणमध्ये मर्म दशाङ्गुलप्रमाणम् ॥ जिह्वामूले मर्म पङ्गुलप्रमाणमिति । एषामन्यतये मर्मणि गाढविद्धः सद्यः प्राणैर्वियुज्यते ॥ इत्येतानि चतुर्खिशति सद्यः प्राणहराणि ॥ अत ऊर्ध्वं छवीनां मिभानां लक्षणं व्याख्यास्यामः । इह खलु भोः षट् छन्यो भवन्ति हस्तिनः । तत्र यदा प्रथमा छविभिद्यते, तदा पुरीषोदकनिभः स्रावो भवति । द्वितीयाया मुदकश्रा (सा) वः । तृतीयायां शोणितश्रा (स्त्रा) वः । चतुप मेदः श्रा(स्त्रा) वः । पञ्चम्पांमज्जा (खा) वः । षष्ठ्य मर्माभिघातो ज्ञेपः॥ -: 0:— अत ऊर्ध्वं दन्तिनां मर्माणि कालान्तरमाणहराणि वक्ष्यामः । वत्र सफु- टिकामध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्त्रिपते | तलसं- घिमध्ये मर्म पढङ्गुलप्रमाणम्, तत्र विद्धो मासत्रयान्त्रिपते । कूर्ममध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । मोहसंधिमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो मासद्वयेन म्रियते । यतस्थाने मर्मं सप्ताङ्गुलप्रमाणम्, तत्र गाढविद्धो मासद्वयान्त्रिपते । विक्षोभमध्ये मर्म सप्ताङ्गु- णम्, तत्र गाढं विद्धो मासत्रयायापद्यते । वाहित्यमध्ये मर्म " लप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे म्रियते । प्रतिमानमध्ये मर्म सप्ता- डुलप्रमाणम्, तत्र गाढं विद्धो मासत्रयान्त्रियते । पेलिहस्तमध्ये मर्म सप्ताङ्गु- लप्रमाणं, तत्र गाढं विद्धो मासत्रयान्त्रियते । त्रपस्थिमध्ये मर्म सप्ताङ्गुलप्रमा- णम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । शम्बुकमध्ये मर्माष्टाङ्गुलममा - सप्ताङ्गुलमा- णम्, तत्र गाढं विद्धो मासत्रपाद्व्यापद्यते । वक्षःसंधिमध्ये मर्माष्टाङ्गुलप्रमाणम्, सत्र गाढं विद्धो यासद्वयान्त्रियते । कुक्षिमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाउं. विद्धो मासद्वपान्त्रियते | संदानभागमध्ये मर्माष्टाङ्गुलप्रमाणम्, तत्र गाढं विद्धः षण्मासाभ्यन्तरे विनश्यति । इत्येतानि पञ्चविंशतिमर्माणि कालान्तरमाणहराणि ||. अत ऊध्वं वैगुण्यकराणां लक्षणं वक्ष्यामः । कटर्कण मुख तालुनेत्र चूचुकपायु- मेहनहस्तश्रो (स्रो) तः स पञ्चदशस प्रत्येकं चतुरङ्गलप्रमाणम्, तत्र गाढं विद्धो + कण्ठमध्ये मर्म सप्ताङ्गुलप्रमाणम् । इत्यधिकमितः परं कपुस्तके |

  • आदर्शद्वयेऽपि तुल्यः पाठः । तथाऽप्युक्तसंख्या तु न लभ्यते ॥

१ क. पर्णिह°। २ क. ख. °ते । अस्थि° | ३ क. °मः | तालुपायुमेहनहस्तमुखकण्ठ- कर्णनेत्रचूचुकनों॰ ।