पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९. सर्मप्रमाणाध्यायः ] इस्त्वायुर्वेदः ५०३ वैकल्यात्क्वच्छ्रजीवी भवति । अष्टीव्ययोमर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धोऽ- पकर्षति । गुहाभागमध्ये कर्णाश्रितं मर्म चतुरङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो भवति | स्पंसमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धकर्णो भवति । अन्तर्बाद्रुमध्ये मर्म पञ्चाङ्गुलप्रमाणम्, तत्र गाढं विद्धो हृद्रोगी भवति । ग्रीवामध्ये मर्मं पढङ्गुलप्रमाणम्, तंत्र गाढं विद्धस्य मन्या- स्तम्भो भवति । बिलाङ्गमध्ये मर्म षडङ्गलप्रमाणम्, तत्र गाढं विद्धश्चक्षुर्विकलप्रे भवति । अपस्कारमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्धः स्तब्धगात्रो भवति । करीपत्रावमध्ये मर्म पढङ्गुलममाणम्, तत्र गाढं विद्ध आनाहेन पीढ्यते । चूचुकपोर्मध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उरःसङ्गमवाप्नोति । करमध्ये मर्म षडङ्गुलप्रमाणम्, तत्र गाढं विद्ध उत्कर्णकेन पीढ्यते । प्रतीकास- (श) मध्ये मर्म षडङ्गुलप्रमाणम् । तत्र गाढं विद्धः पाकलेन पीड्यते । अंश(स)मध्ये षडङ्गुलप्रमाणम्, तत्र गाढं विद्धो गात्रभङ्गमवाप्नोति । क्षयभागे मर्म सप्ताङ्गु लप्रमाणम्, तत्र विद्धस्य गात्रस्य रुजा भवति । कलाभागमध्ये धर्म सप्ताङ्गुल- प्रमाणम्, तत्र गाढं विद्धोऽतीसारमवाप्नोति । अन्तरोपरमध्ये मर्म सप्ताङ्गुलम- माणम्, तत्र गाढं विद्धो मूत्रसङ्गमवाप्रोति । उदरमध्ये मर्म सप्ताङ्गुलप्रमाणम्, तत्र गाढं विद्धो मेढ्रशोषमवाप्नोति | पृष्ठमध्ये मर्म विशेत्यङ्गुलप्रमाणम्, तत्र गाढं विद्धोऽपरंरोगी भवति । इत्येतानि चतुर्बिशन्मर्माणि वैगुण्यकराणि भवन्ति । तत्र वैगुण्पकराणां चतुर्दशानां मर्मणां लक्षणान्युक्तानि || मर्म तत्र श्लोकाः - एवं सप्त महाराज शतं व परिकीर्तितम् । वारणानां शरीरेषु मर्मणामिति निश्चितम् ॥ तस्मान्मर्माणि संरक्षेद्वारणानां भिषग्वरः । "ततः कुर्यात्क्रिपापथम् || 0000000000000000 पो मर्माणि न जानाति वारणानां विभागशः । न स कार्य किया (?) नागे विषपान्ते तमुत्सृजेत् || इति श्रीपालकाप्ये गजायुर्वेदे महाप्रवचने तृतीये शल्पस्थाने मर्मप्रमाणो नाम विंशोऽध्यायः ॥ २० ॥ १ क. °रामध्येऽप ° । २ क. ° शत्पश्चाङ्गुलं प्र° | ३ के. ° शतिमर्मा ।