पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- अथाष्टादशोऽध्यायः । [ ३ शल्यस्थाने-

  • षोडश दशनाः प्रोका नागानां सगदा नृप ।

द्वावन्यावधिकौ दन्तावुपर्यूव च विज्ञेषौ ॥ हेन्वस्थिसंधिरुद्धो वायुर्मज्जास्थिवृंहणं कुरुते । इन्वस्थिदन्तदोषादधिदन्तै स्पामतस्प नश्वरतः || स्ववेदना स्यात्सुदारुणा तेन दन्तमूलेषु | परुषच्छ विर्विवर्णा कृशश्च मन्दामिलाषश्च || तस्य गलग्रहनिर्मितय श्रेण सुयत्रितस्य नागस्य | स्तम्मालितस्य राजन्विकास सुविदारितास्पस्य || द्वात्रिंशदङ्गलायतद शनपरिणाहेन लोहदण्डेन । एणीपदेन कुर्यादुद्धरणं तयोः सम्यक् || व्रीहिमुखेन च परिशोध्य सर्वतस्तस्य दन्तमूलेषु | उष्णोदकधौतेषु मधुसर्पि: पूरणं दद्यात् || तेन मुखी भवति गजो बलवान्मुख विक्रमश्चैव || इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्पस्थानेऽधिक- दन्तचिकित्सितं नामाष्टादशोऽध्यायः ॥ १८ ॥ अथैकोनविंशोऽध्यायः । देवराजप्रतीकाशश्चम्पायां पृथिवीपतिः || अभिगम्याऽऽश्रमं पुण्यं पालकाप्पमथाब्रवीत् ॥ १ ॥ यथा शिरा भवेच्छिन्ना भिना वायुविघट्टिता || अतिप्रवृत्ते रुधिरे स्थापनं च कथं भवेत् ॥ २ ॥ एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् || शृणु सर्व महाराज अविक्षिप्तेन चेतसा ॥ ३ ॥ केवलं शास्त्रकर्माणि ह्यशास्त्रज्ञाश्चिकित्सकाः ॥ मर्मभागमजा नन्तो हिंस्युः स्नायुशिरास्तथा ॥ ४ ॥

  • आदर्शद्वयेऽपि तुल्यत्वादस्मिन्नध्याये छन्दोविनितिश्चिन्तनीया ||

१ क. हस्तिसं | २ क. °न्तश्चावृश्चनः | वर ° | ३ क. °ता यस्य | ४ ख. °तः स्वस्य दन्तेषु | ५ क ख शिरो | ६ क वृद्धिता ।