पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ दत्तनाडीचिकित्सिताध्यायः ] हस्त्यायुर्वेद: । आक्षेपयति धूपोऽयं दन्तनेत्रसुखावहः || पृष्टपण्र्ण्यश्चमस्यौ च छिनरुत्तालपत्रिकः ॥ ४१ ॥ समजा व करअब्ध मुवहाऽतिबला बला || महासहा व विश्रा व निकायस्तैलपाचनः ॥ ४२ ॥ सुवहागिरिक व कपिकच्छू: समूलिका || महौषधं रसं काथं तैलेन सह पाचयेत् ॥ ४३ || द्विगुणक्षारसंयुक्तं कल्कश्चैव भिषग्वरः ॥ मञ्जिष्ठायाः मियङ्ग्वाश्च मधूकस्य हरिद्रयोः ॥ ४४ ४ मांस्याः कालानुसार्याश्च ध्यामजीवकयोरपि ॥ ऋषभस्य सरोधस्य वचाश्रीवेष्टकस्य च ॥ ४५ ॥ प्रपौण्डरीकस्य तथा लक्ष्णं पिष्वा प्रदापयेत् || पहं शिरोविरेकः स्यात्तैलपीतस्य च त्र्यहम् ॥ ४६ ॥ पश्चानस्यावसेकस्य दन्ताप (वे) (सु)तस्प च || काकोली मधुपर्णी च सालपर्णी सरोहिणी ॥ ४७ ॥ पयस्या च कुलिङ्गाक्षी छिनरुण्मुद्रपर्ण्यपि ॥ अम्बष्ठा चैव तैलं स्यातेन तैलं विपाचितम् ॥ ४८ ॥ द्विगुणक्षीरसंयुक्तं तैलमात्रावशेषितम् || तेन वाभ्यञ्जनं पानं नस्यकर्म च पूज्यते ॥ ४९ ॥ शंशतित्तिरिलावानां मयूरवृषभस्य च ॥ युक्तं मरिचचूर्णेन पिप्पलीशुण्ठसैन्धवैः ॥ ५० ॥ स्निग्धं सलवणं चैव तं रसं पाययेद्द्रजम् ॥ देयं शाल्पोदनं चैव रसैस्तैरेव संस्कृतैः ॥ ५१ ॥ यदा वास्य स्थिरीभावः समाधिश्चैव दन्तयोः ॥ पञ्चाहान्तरितं तस्मादथवाऽपि त्र्यहं तथा ॥ प्रतिपानं प्रसन्नां च तैलयुक्तां प्रदापयेत् ॥ ५२ ॥ इतीदं दन्तनाडीनां सनिदानं चिकित्सितम् || पृच्छते रोमपादाय पालंकाप्पेन कीर्तितम् ॥ ५३ ॥ ४९५ इति श्रीपालकाप्ये हस्त्यापुर्वेद महाप्रवचने तृतीये शल्पस्थाने दन्तना- डीचिकित्सितं नाम सप्तदशोऽध्यायः ॥ १७॥ १ क. तरसं ।