पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- तृतीये वा चतुर्थे वा पद्मवर्णः स उच्यते ॥ पञ्च मेऽहनि षष्ठे वा किंशुकाम इति स्मृतः ॥ ३८ ॥ एवं शुक्रं तु नागानां सप्ताहात्परिपच्यते ॥ दोषाणां प्रकृति ज्ञात्वा शिराव्यूहविशारदः ॥ ३९ ॥ शस्त्रकर्मणि निष्णातो पुश्चेषां श्रेष्ठ उच्यते सर्वासां सरितां यद्वत्प्रतिष्ठा वरुणालयः ॥ ४० ॥ तंद्ररिसराणां सर्वासां प्रतिष्ठा हृदयं स्मृतम् ॥ तस्माद्गर्भे शयानस्य व्यक्तं भवति हस्तिनः ॥ ४१ ॥ हृदयं च शिरश्चैव तस्मात्कायो विवर्धते || शरीरविचये पूर्व मया सम्पपकर्त्यते ॥ ४२ ॥ मनोबुद्धयन्तरास्थानां त्रिविधः सोऽनुकीर्त्यते || अन्तरात्मा शरीरस्य मुह्यति त्वसृजः क्षयात् ॥ ४२ ॥ मात्रया रुधिरं तस्माद्दुष्टमप्यपकर्षयेत् || तत्र मात्राप्रमाणं तु द्विविधं संप्रवक्ष्यते ॥ ४४ ॥ शरीरमभिविज्ञेयं यथादोषं यथाबलम् || वातजानां तथा प्रोक्तं लिङ्गं तस्माद्विवर्जितम् ॥ ४५ ॥ न विश्रा (सा) व्यं महीपाल माणवत्स्वपि हस्तिषु || कदाचिद्दोपबाहुल्यात्स्कलं नैव प्रवर्तते ॥ ४६ ॥ तत्र मात्राप्रमाणं तु यथावदुपदेक्ष्यते ॥ तस्मान्मात्राप्रमाणाच विशेषं संप्रचक्षते ॥ ४७ ॥ तत्र मात्राममाणं तु यथावदुपदेक्ष्यते ॥ सप्तमं भागमाहारात्तस्माद्रक्तं तु मोक्षपेत् ॥ ४८ ॥ सप्तारत्नेर्महीपाल भागेतानेन संमितम् || शेषाणां वारणानां तु श्रा(स्त्रा) व पेन्मतिमान्भिषक् ॥ ४९ ॥ एवं प्रमाणमुद्दिष्टमतः शृणु महीपते || पेषां गजानां वै श्रा (ला) व्यमविश्वा ( स्ला) व्याश्च ये गजाः ||५०|| वातरोगेषु नागानामविश्राव्य भिषग्भवेत् || कुशे हीनेन्द्रिये चैव हृद्रोगे गुल्म एव च ।। ५१ || तथाऽतिबाले वृद्धे च प्रकृत्या दुर्बले गजे ॥ शेषे च वातप्रकृतावतिवातग्रहान्विते || ५२ || १ क. तद्वच्छरीरिणां सर्वप्र° | २ क. शिराश्चैव | ३ रु. मन्ये बु° । ४८४ [ ३ शश्वस्थाने-