पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- 'ततः कण्ठे च मध्ये च धमन्योऽहो समाभिताः ॥ कर्णयोस्तु तथा विद्यावाभिस्तु पेरिबीचति ॥ ९ ॥ ततः शिरा बस्तिकोशमुरो वालं गुदस्तथा ॥ मातृकाः प्राप्नुवन्त्येतास्तलगात्रापरं तथा ॥ १० ॥ एवमङ्गेषु सर्वेषु मातृका तेहगोचराः ॥ काये शिराः सप्तशतं विभागाः शृणु पार्थिव ॥ ११ ॥ गुदं मेद्रमथो नाभिं तत्र बस्ति समाश्रिताः || ताभिः संमूर्च्छितो वायुर्धमनीः प्रतिपद्यते ॥ १२ ॥ शतार्धमेव ता विद्याच्छिरा वै देहगोवराः || या रसान्पविभागेन (ण) वायुमेव वहन्ति ताः ॥ १३ ॥ नाभेस्तु हृदयं यावदपरा परतस्तु या ॥ ताभिः संमूर्छितं पित्तं धमनीः प्रतिपद्यते ॥ १४ ॥ शतार्धमेवं तु शिराः पित्तमेव वहन्ति याः ॥ उरः संघिशिरोग्रीवं मर्याणि व समन्ततः ॥ १५ ॥ ततः संमूर्च्छितः श्लेष्मा धमनीः प्रतिपद्यते ॥ विद्धि पञ्चाशदेवैताः शिराः श्लेष्मवहा गजे ॥ १६ ॥ तावन्त्या (त्यः) फुप्फुसयकृद्धृदयानां च मध्यतः ॥ पा रसानुविभागेन शोणितं संवहन्ति सु ॥ १७ ॥ वांमध्ये विज्ञेयाः शिरा रसवहाः पृथक् ॥ थास्थानविभागेन धाहूना प्यायपन्ति याः ॥ १८ ॥ समेदोस्थिमज्जानां शुक्रस्य च नराधिप || एकैकस्याः शताधं तु शिरा ज्ञेयाः पृथक्पृथक् ॥ १९ ॥ दोषधातुप्रकर्षेण हर्षेण च बलेन च || मदः संजापते राजन्स्वभावाश्चैव दन्तिनाम् ॥ २० ॥ शतार्धमेव तु शिराः पृथक्कादवाः स्मृताः || या रसानुविभागेन कटौ मेद्रे च संस्थिताः ॥ २१ ॥ समासात्कण्डरा झष्ठौ विद्धि गात्रापरे तथा ॥ पश्चात्पुरस्ताखेकं पादं प्रत्येकमाश्रिताः ॥ २२ ॥ सूक्ष्मो विचारी पुरुषः कटुः शीतच मारुतः ॥ उष्णमलं द्रवं पित्तं विवर्ण दारुणं भृशम् ॥ २३ ॥ १ क. परिजीवति । २ क. शिरो। ३ क. च्छिरो वै । ४ क. 'भावश्चैव । ४८२