पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने- अतः परं व्रणावस्थान्तरहेतू न्वक्ष्यामः- क्रियाविपर्यपार्दुत्तानशयमवधन- न्धप्रतिहस्त्यभिघात पसनाध्वगमनाद्वैथोपरोधाच ये द्वियोमपो प्रणाः संभ- वन्ति । इह खलु भो नागानां यो व्रणो मयूरग्रीवाभश्चन्द्रकी समन्ततोऽभिक- ठिनः, तमसाध्यं विद्यात् । मत्स्यगन्धिः पिच्छिलः, तमसाध्यं विद्यात् । अथवा यस्य नागस्य कृष्णः परिशुष्को विगन्धो व्रणः, तमसाध्यं विद्यात् । कोष्ठान्तर्गतः परिश्रा (स्त्रा) वी प्रवृद्धश्चापि दुर्गन्धः, तमसाध्यं विद्यात् । आ ( औ ) दुम्बरमुखः शोणितपरिश्रा (सा) वी व्रणः कठिनः, तमसाध्यं विद्यात् । वल्मीकसंस्थानः कृमियुक्तो बहुच्छिद्रः शोणितप्रस्रावः, तमसाध्यं विद्यात् । बिम्बोष्ठ उम्नतमध्यः कृष्णपर्यन्तः कठिनो व्रणो दुर्गन्धश्चेति तमसाध्यं विद्यात् । मर्माभिघातशोणितपरिश्रा (स्त्रा)वी जलपत्रवत्, तमसाध्यं विद्यात् । पूयशो- णितपरित्रावी व्रणः पिच्छिलो दुर्गन्धश्चेति तमसार्ध्य विद्यात् । मांसावगा- ढोऽस्थिभागाश्रित आड (औदु)म्बरमुखः, तमसाध्यं विद्यात् | सिरानुगत: परिस्रावी पिच्छिल आघमातो व्रणः, तमसाध्यं विद्यात् । अथ कठिनोष्ठः सवे- दनः सशोफः, तमसाध्यं विद्यात् || तत्र श्लोकः--- निर्गन्धी झपरिस्रावी पद्मपत्रमभी वणः । निर्वेदनस्तथोत्तानो निर्दोष इति तं विदुः || इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीये शल्यस्थाने व्रणचिकित्सितं नाम चतुर्दशोऽध्यापः || १४ || अथ पञ्चदशोऽध्यायः । अत ऊध्र्ध्वं नाडीव्रण समुत्थानचिकित्सितं व्याख्यास्यामः- इति ह स्माऽऽह मगवान्पालकाप्य: -अथ भोः खलु वारणानां वातपित्तकफसंनिपाताभिघातेः पञ्चविधा नाड्यो भवन्ति ॥ यदा तु शल्यं प्रविशत्यन्तदेहे वारणानां वातपित्तकफादिभिर्दोषैर्दुष्टेमांस- योणितं भूयः स्वभागानुगतं कालप्राप्तो न निवार्यते शस्रैरन्तदेंहे ततः पूपब- हृत्वात्समुदीर्यते । ततः संनिरुद्धे मार्ग उन्मार्गेण गच्छति । ततो धातूनम्प- न्तराश्रितान्दूषयित्वा तद्द्वर्त्मगमनाद्वतिरुच्यत इति । अजस्रं पतः स्रवति पूर्ण पिच्छिलं विवर्णं नाडीवत् । तस्मानाडीमभिनिर्दिशेदिति || १ क. °इत्थान' ।