पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- आयतं चतुरो हस्तान्हस्ताद्वा द्वादशाकुलात || कोट्यः षडङ्गुलं चैव मधूकं शाकमेव च ।। ५६ ॥ त्रपङ्गुलं त्ववगाढं च चतुरस्रं समन्ततः ॥ चतुरङ्गुलविस्तीर्णाः कोट्यस्तत्र च कारपेत् ॥ ५७ ॥ असंभ्रान्तमतिर्वैद्यः सत्त्वमार्ग समाश्रितः || [ २ शल्यस्थाने- ये त्रयोदश बन्धा वै मया पूर्व प्रकीर्तिताः ॥ १८ ॥ पत्रे प्रवेश्य वै नागो बन्धितव्यो नराधिप । ततोsस्प फलके हस्तं वासयेत विचक्षणः ॥ ५९ ॥ नस्पकर्मणि नागानामन्येषु च न वासयेत् || सूचीभिरुपधेयश्च ततः स पृथिवीपते ।। ६० ।। उरस्येका ततो देवा एकैकाऽष्टीव्ययोः पुनः ॥ अपस्कारे तथा होका एका च जघने भवेत् ॥ ६१ ॥ एका मस्तकपिण्डे तु सूची देपा नराधिप । एकैवाथाssसने देया तथैका पश्चिमासने ॥ ६२ ॥ लाङ्गूलवंशे दातव्या चैका सूची महीपते || एवमष्टौ विधातव्याः पञ्च सूचयः समाहिताः ॥ ६३ ॥ ताभिः परिगृहीतस्य बन्धाः कार्यास्त्विमे पुनः || उत्सङ्गी परिदामी च तथा चैवोरसी पुनः || ६४ ॥ पाददानी च कर्तव्या मुढा पत्रकर्मणि || उदानाश्चापि कर्तव्याश्चत्वारः साधुपूजिताः || ६५ ॥ एवं पत्रे निबद्धस्प बन्धैः सर्वैश्च हस्तिनः || प्रतिकर्म ततः कार्य भिषजा सिद्धिमिच्छता ॥ ६६ ॥ ज्येष्ठयन्त्र विधानं तु सम्यगेतदुदाहृतम् || यथाप्रमाणविहितं वारणानां महीपते ॥ ६७ ।। यत्रं तु मध्यमं कार्य प्रमाणेन समाहितम् 11: त्रिभागपरिहीणं स्यादुत्तमात्पृथिवीपते ।। ६८ ॥ कन्पसं मध्यमात्किचिदूनं पत्रमिहोच्यते || अथवा विभजेद्यन्नं यथाहस्तिप्रमाणतः || ६९ ॥ आयामार्धेन नागस्य विस्तार : समुदाहृतः || त्रयाणामपि नागानां यथावदनुपूर्वशः || ७० ||