पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ विध्यध्यायः ]. हस्त्यायुर्वेदः । तस्मात्पत्रितं कृत्वा पूर्वमेव तु वारणम् || स्तम्भालितं तु पनेन नित्यकालमुपाचरेत् ॥ ११ ॥ पूर्वापरपरिक्षेपस्त्वालानमुपयामकम् || उपरिग्रहबन्धश्च हस्ते वासनमेव च ॥ १२ ॥ दन्ते सकटिके चैव अपस्कारे तथैव च || दन्तोदानीं शिरोद्दानीं कायोद्दानीं तथैव च ॥ १३ ॥ वालं वासनमेवात्र इति बन्धास्त्रयोदश || प्रतिकर्म क्रियाकाले प्रयोक्तव्यास्तु दन्तिनाम् ॥ १४ ॥ एतैः समस्तैर्बद्धस्य बन्धैर्नागस्य पार्थिव || प्रतिकर्मविधि कुर्याद्भुप्तस्याऽऽरक्षरक्षिभिः ।। १५ ।। रोमपादस्ततो राजा विनयात्पुनरुत्थितः || पप्रच्छ पालकाप्यं तु पुनः मनमनन्तरम् ॥ १६ ॥ भगवशिष्यभावेन किंचित्पृच्छामि संशयम् ॥ तदशेषेण विधिवत्सर्वमाख्यातुमर्हसि || १७ || आलिते बहवो दोषा बद्धगात्रापरस्य च || रज्ज्वाद्येन सुगुप्तस्य वारणस्य महीपते ॥ १८ ॥ उद्विग्नो भयसंत्रस्तः प्रतिकर्मक्रियासु वै ॥ पतेद्वा निष्पतेद्वाऽपि ततो बाध्येत वा गजः ॥ १९ ॥ बन्धादींश्छेदयेत्सर्वानालानं वाऽपि वारणः ॥ तस्य प्रतिक्रियां काले कथं ह्युपाचरेत् ॥ २० ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् || शृणु सर्व महाराज यथा कार्य भिषग्जिता ॥ २१ ॥ भूमि: पाषाणबहुला विषमा शर्करान्विता || कर्दमतृणयुक्तावा प्रतिवर्मणि वर्जिता ॥ २२ ॥ या तु नात्यर्थसिकता पांशुला नष्टशर्करा | निष्कर्दमा समा चैव सा भूमिः कर्मणो हिसा ॥ २३ ॥ पूर्वापरपरिक्षिप्तं तत्र नार्ग निषादयेत् || रज्जं च निर्णयेत्पक्षे पक्षबन्धं च कारयेत् ॥ २४ ॥ पक्षबन्धविधानं च कर्तव्यं विधिना भवेत् || अपस्कारे दृढं बद्ध्वा अष्टीव्ये च नराधिप ॥ २५ ॥ ४५९