पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५८ / • पालकाप्यमुनिविरचितो- अतिदग्धे भवन्त्येतद्वणे नागस्य पार्थिव ॥ शीर्णमांसाः सुगम्भीरा व्रणा दुःखप्ररोहिणः ॥ ५८ ॥ अतिरिक्ते भवन्त्यमौ व्रणे दोषश्च दारुणः || परिषेकैः प्रदेहैश्च शीतलैस्तमुपाचरेत् ॥ ५९ ॥ द्वित्रणीये यथा प्रोक्तं तथा व्रणमुपाचरेत् || इति सम्यक्समाख्यातः शस्त्रामिमणिधौ विधिः ॥ ६० ॥ इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने तृतीपे शल्पस्थाने शस्त्राप्रिप्रणिधिनम दशमोऽध्यायः ॥ १० ॥ अथैकादशोऽध sध्यायः । अङ्गो हि राजा चम्पायां पालकाप्पं स्म पृच्छति ॥ कृतजप्यमृषि श्रेष्ठं विनयेन कृताञ्जलिः ॥ १ ॥ शस्त्राग्रिमणिधाने यत्परिकर्मसु हस्तिनाम् || सर्व भगवता प्रोक्तं दृढे स्तम्भे निबन्धनम् ॥ २ ॥ तत्कथं वारणेन्द्राणां कर्तव्यमृषिसत्तम ॥ स्तम्भ एवं निबद्धानामनरूपबलतेजसाम् ॥ ३ ॥ कथं न हस्तवालाभ्यां हिंस्युर्मात्रापरेण वा ॥ प्रतिकर्मक्रियाकाले बन्धेनैकेन संयताः ॥ ४ ॥ पथा येन निराबाधं निराबाधं च हस्तिनाम् ॥ भवेत्तु विधिवत्सर्वं तथा मे वक्तुमर्हसि ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा पालकाप्यस्ततोऽब्रवीत् || शृणु राजन्यथा कार्य: प्रतिकर्मक्रियाविधिः ॥ ६ ॥ आलाने चैव बद्धानां कार्यस्तु पृथिवीपते || शस्त्रामिक्षारसंयुक्तः प्रतिकर्मक्रियाविधिः || ७ || अपत्रितमबद्धं वा यो नागमुपसर्पति ।। प्रतिकर्मकियां कर्तुं बालिशस्त्वरयाऽपि वा ॥ ८ ॥ जीविते संशयस्तस्य वैकल्यं वा ध्रुवं भवेत् || न च सम्पक्रियां कर्तुं स शक्नोति नराधिप ॥ ९ ॥ स्नाय्वस्थीनि सिरा वाऽपि कर्म चाप्युपहन्त्यपि || तिर्यग्वा पातयेच्छवं वेपमानो ह्यशिक्षितः ॥ १० ॥ स्थाने