पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पालकाप्यमुनिविरचितो- अधिकारं सदा ब्रूपादचिन्त्यं परिवर्जयेत् ॥ मतिमान्कुशलो वैद्यः शास्त्रमाश्रित्य युक्तितः ॥ २२६ ॥ इतीह पृष्टो भगवानङ्गराजेन धीमता ॥ प्राह शाखविदं प्राज्ञः पालकाप्यो पधातथम् ॥ २२७ ॥ इति श्रीपालकाप्ये हत्यायुर्वेदे महाप्रवचने महापाठे तृतीये शल्पस्थाने शरीरविचयो नाम नवमोऽध्यायः ॥ ९ ॥ १५४

[ ३ शल्यस्थाने- अथ दशमोऽध्यायः | शस्त्राग्रिमणिधानं तु पालकाप्यो महामुनिः || गजानां वदतां श्रेष्ठः प्रोवाचाङ्गेन चोदितः ॥ १ ॥ प्रत्यासत्रोदके देशे समे मुखपरिक्रमे || विश्वासयन्हढे स्तम्भे यन्त्रयित्वाऽथ वारणम् ॥ २ ॥ विन्यस्पोदककुम्भं च समिध्यामि चिकित्सकः ॥ वांशीकुठारपरशुं विमोक्षार्थमुपार्जयेत् ॥ ३ ॥ आधारांस्तापिकां दवीं शस्त्राणि विविधानि च ॥ शोणितस्थापनार्थं च यथोक्तान्यौषधान्यपि ॥ ४ ॥ समङ्का (ङ्गा)गदरोम्बष्ठाक्षीरिणां च त्वचः समाः || आमलक्यश्वकर्णस्य मधूकस्य धवस्य च ॥ ५ ॥ त्वचः प्रियङ्गवो रोधं पतङ्गं गैरिकं तथा ॥ शुष्कचूर्णानि सूक्ष्माणि भूतिर्वरुणकस्य च ॥ ६ ॥ गवां च शकृतचूर्ण पांशूनञ्जनमेव च ॥ श्रीवेष्टकं सर्जरसं पृथ्वीकाशोकमुष्ककान् ॥ ७ ॥ अरिमेदपलाशानां निर्यास गुग्गुलुं तथा ॥ चूर्णांनि यवमुद्गानां मृदं दग्धा (ग्ध्वा) कपालिनाम् ॥ ८॥ जीवाङ्गारान्सह क्षौमांस्तथा निर्वापणानि च || शस्त्राणि वासयित्वाऽमिं हुत्वा वाच्य द्विजानपि ॥ ९ ॥ प्रोक्ष्याद्भिराज्यशेषेण समालभ्य गजं ततः || सम्पनिधापयेच्छस्त्रं देशेषु मतिमान्भिषक् ॥ १० ॥ स्व (श्व ) पथुस्त्वग्गतो ज्ञेयो गम्भीरो मर्मजश्व पः || दोषलिङ्गेश्व विज्ञेषाः संसृष्टागन्तवश्च ये ॥ ११ ॥