पृष्ठम्:हस्त्यायुर्वेदः-2.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इस्त्यायुर्वेदः शौर्यादभिजनाद्धर्षात्परिणामाभिसर्गतः || संतापात्पुष्टितो व्याधिरुपधानाच माद्यति ॥ १२ ॥ कफं पित्तमसृड्यांस मेदश्चान्योन्पमूर्च्छितम् || सुगन्धे दीपनं स्याच कटिच्छिद्रमुपस्थितम् ॥ १३ ॥ तस्प तद्धर्षजं वीर्य सौम्याग्रेप मुदीरितम् ॥ घायुना कैण्ठमेद्रेभ्यः खेभ्यश्चास्य सिच्यते ॥ १४ ॥ अतः शिलाम्पः संभूतं यथा शैलाच्छ्र (स्त्र) वेज्जलम् || एवं गजमुखं प्राप्य स्वेदः श्र (स) वति पार्थिव || २१५ ॥ . समागता गजमुखे सर्वाः स्वेदवहाः सिराः ॥ भुकान्त ( न ) स्य हि प्रस्वेदात्ताः श्र (स्त्र )वन्ति निसर्गतः ॥ १६ ॥ अन्येषां रोमकूपेभ्यः प्रविष्टमपरा: सिराः || वहन्ति कायजान्धातूनिर्दिशेत्सर्वदेहिनाम् ॥ २७ ॥ इस्ती दन्वी गजो नागो मतङ्गः कुञ्जरः करी || इभो मतङ्गजश्चैव वारणो द्विरदो द्विपः ।। १८. ।। मृगोऽथ सामजश्चैव तथा चानेकपः स्मृतः ॥ इति पञ्चदशैतानि नामान्युक्तानि पण्डितैः ॥ १९ ॥ पथा गोमहिषाश्वानामुष्ट्राणां वा समा तनुः || एवमभ्यन्तरस्वेदा हस्तिनस्तु निसर्गतः || २२० ।। एकपादा द्विपादाश्च बहुपादाश्च देहिनः ।। नानाकृतिजवज्ञानानसमानान्निसर्गतः ॥ २१ ॥ ऐवं मतङ्गजा ज्ञेया न समानाः परैर्मृगैः ॥ अन्तःस्वेदा मूढर्मुष्का मुखशृङ्गमहारिणः ॥ २२ ॥ ऐश्वर्येण निसर्गेण न समाना मृगैर्गजाः || ब्रह्मा तद्वेद भूतानां निसर्गे कारणं विभुः || २३ || ( * अनन्तानां च लोकानां भूतानां च महीपते ॥ न शक्यं कारणं ज्ञातुं देवं गुह्यं प्रजापते ॥ २४ ॥ उत्पत्तिकर्म विज्ञानं शरीरं विचयो बलम् || आयुरारोग्यता वर्ष्म वयो ज्ञानं च तत्त्वतः ॥ २२५ ॥ ९ शरीरविषयाध्यायः ] ४५१

धनुश्चिह्नान्तरगतस्त्रिचतुराध्यायात्मकपाठः कपुस्तके नास्ति ॥ १ क. तद्वीर्यजं । २ ख. कठमे° | ३ क. प्रसिध्यते । ४ क. शुकृन्तस्य १ क. एवमेव गजा । ६ क. °मुखा मु° ।